१८

अथ द्वितीयप्रश्ने अष्टादशोऽध्यायः

अथातो रुद्रस्नानार्चनविधिं व्याख्यास्यामः आदित एव तीर्थे स्नात्वोदेत्याहतं वासः परिधाय शुचिः प्रयतो ब्रह्मचारी शुक्लवासाः ईशानस्य प्रतिकृतिं कृत्वा तस्य दक्षिणाप्रत्यग्देशे तन्मुखः स्थित्वा आत्मनि देवताः स्थापयेत् प्रजनने ब्रह्मा तिष्ठतु । पादयोर्विष्णुस्तिष्ठतु । हस्तयोर्हरस्तिष्ठतु । बाह्वो रुद्रस्तिष्ठतु । जठरेऽग्निस्तिष्ठतु । उदरे पृथिवी तिष्ठतु । हृदये शिवस्तिष्ठतु । कण्ठे वसवस्तिष्ठन्तु । वक्त्रे सरस्वती तिष्ठतु । नासिकयोर्वायुस्तिष्ठतु । नयनयोश्चन्द्रादित्यौ तिष्ठेताम् । कणयोरश्विनौ तिष्ठेताम् । ललाटे रुद्रास्तिष्ठन्तु । मूÞर्यादित्यास्तिष्ठन्तु । शिरसि महादेवस्तिष्ठतु । शिखायां वासुदेवस्तिष्ठतु । पृष्ठे पिनाकी तिष्ठतु । पुरतश्शूली तिष्ठतु । पार्श्वयोश्शिवाशङ्करौ तिष्ठेताम् । सर्वतो वायुस्तिष्ठतु । सर्वतोऽग्निज्वाला मालापरिवृतास्तिष्ठन्तु । सर्वेष्वङ्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु । मां रक्षन्तु इति । अग्निर्मे वाचि श्रितः इति यथालिङ्गमङ्गानि सम्मृज्याथैनं गन्धाक्षतपत्रपुष्पधूपदीपैराराधयेत् १
अथैनं प्रसादयति आराधितो मनुष्यैस्त्वं सिद्धैर्देवासुरादिभिः आराधयामि शक्त्या त्वानुगृहाण महेश्वर २
त्र्यम्बकं यजामहे इति च ३
अथैनमावाहयति आ त्वा वहन्तु हरयस्सचेतसश्श्वेतैरश्वैस्सह केतुमद्भिः । वाताजितैर्बलवद्भिर्मनोजवैरायाहि शीघ्रं मम हव्याय शर्वोम् इति ४
स्थापिते नावाहनम् ५
अथास्मा आसनं ददाति सद्योजातम् इति भवे भवे इति पाद्यं भवोद्भवाय नमः इत्यर्घ्यं रुद्राय नमः इत्याचमनीयं व्याहृतीभिर्निर्माल्यं व्यपोह्याथैनं स्नापयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन ब्रह्म जज्ञानं कद्रुद्राय सर्वो वै कया नश्चित्र आभुवत् आपो वा इदं सर्वम् इति च ६
व्याहृतीभिः प्रदक्षिणमुदकं परिषिच्य पवित्र पादमूले निधायाद्भिस्तर्पयति भवं देवं तर्पयामि इत्यष्टाभिः वामदेवाय नमः इति वस्त्रं ज्येष्ठाय नमः इति यज्ञोपवीतं रुद्राय नमः इत्याचमनीयं कालाय नमः इति गन्धं कलविकरणाय नमः इत्यक्षतं बलविकरणाय नमः इति पुष्पं बलप्रमथनाय नमः इति धूपं सर्वभूतदमनाय नमः इति दीपं मनोन्मनाय नमः इति काले नैवेद्यं रुद्राय नमः इत्याचमनीयं ददाति ७
अथास्याघोरतनूरुपतिष्ठते अघोरेभ्योऽथ घोरेभ्यः इति ८
अथ रुद्रगायत्रीं जपेत् तत्पुरुषाय विद्महे इत्येतां रौद्रीं सहस्रकृत्व आवर्तयेच्छतकृत्वोऽपरिमितकृत्वो वा दशावरम् ९ अथैनमाशिषमाशास्ते ईशानस्सर्वविद्यानाम् इति १० अथास्य मूर्ध्नि कलशधारया सन्ततमभिषिञ्चति नमस्ते रुद्र मन्यवे इत्येकादशानुवाकान् जपेत् । सर्वो वै रुद्रः इति त्रीननुवाकान् सद्यो जातम् इति पञ्चानुवाकान् इमा रुद्राय इति द्वादशर्चानन्यांश्च रौद्रमन्त्रान्यथाशक्ति जपेत् ११ एवमेकादशकृत्वोऽभिषिञ्चति १२
जपान्ते जपान्ते अग्नाविष्णू सजोषसा इत्येकादशानुवाकानामेकमेकमनुवाकं जपेत् १३ सर्वेषामन्ते पुनराराधयेत् सद्यो जातम् इत्यासनादि दीपान्तं पूर्वोक्तं सर्वं कृत्वा मनोन्मनाय नमः इति पायसादि महाहविर्निवेदयेद्रौद्रीभिस्स्तुतिभिस्स्तुन्वन्ति १४ तदेतद्रुद्रस्नानार्चनं पापक्षयार्थी व्याधिमोचनार्थी श्रीकामश्शान्तिकामः पुष्टिकामस्तुष्टिकाम आयुष्काम आरोग्यकामो मोक्षकामश्च कुर्यात् १५
अथ यथाशक्ति दक्षिणां ददाति दशगावस्सुवर्णभूषिता ऋषभैकादशास्तदभाव एकां गां दद्यादित्याह भगवान् बोधायनः १६

इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने अष्टादशोऽध्यायः