अथ द्वितीयप्रश्ने सप्तदशोऽध्यायः
अथातो महादेवस्याहरहः परिचर्याविधिं व्याख्यास्यामः स्नातश्शुचिस्समे शुचौ देशे गोमयेनोपलिप्य देवस्य प्रतिकृतिं कृत्वाऽक्षतपुष्पैर्यथालाभमर्चयित्वा सह पुष्पोदकेन महादेवमावाहयेत् ॐ भूः पुरुषमावाहयामि इत्यादि आयातु भगवान् महादेवः इति १
यो रुद्रो अग्नौ इति यजुषा पात्रमभिमन्त्र्य प्रक्षाल्य तिरःपवित्रमप आनीय पुनस्तेनैवाभिमन्त्र्य सह पवित्रेणादित्यं दर्शयेत् ओम् इत्यातमितोः २
तासां पाद्यम् इति पाद्यं ददाति ३
अथ व्याहृतीभिर्निर्माल्यं व्यपोह्यार्घ्यमाचमनीयं दत्वाऽभिषिञ्चति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन ब्रह्म जज्ञानम् कद्रुदाय त्वरितरुद्रं वामदेव्यं आपो वा इदम् इति च ४
अथ व्याहृतीभिः प्रदक्षिणमुदकं परिषिच्य पवित्रं पादमूले निधायाद्भिस्तर्पयति भवं देवं तर्पयामि इत्यष्टाभिः ५
ॐ नमो भगवते रुद्राय त्र्यम्बकाय इति वस्त्रयज्ञोपवीते दद्यात् ६
भवाय देवाय नमः इत्यष्टाभिः पुष्पाणि दद्यात् ७
त्वरितरुद्रेण गन्धपुष्पधूपदीपं ददाति ८
देवस्य त्वा इति हविषो निवेदयेत् ९
त्र्यम्बकम् इति परिषेकं दद्यात् १०
अमृतोपस्तरणमसि इति प्रतिपदं कृत्वा हविरविरुद्धं सर्वं स्वादु वस्तु कन्दमूलफलानि दद्यात् ११
मुहूर्तमनवेक्षमाण आसीनो हविरुद्वासयामि इति निवेद्यमुद्वास्य अमृतापिधानमसि इति प्रतिपदं कृत्वा त्र्यम्बकम् इत्याचमनीयं दद्यात् १२
सर्वोपकरणैरर्चयित्वा भवाय देवाय नमः इत्यादिभिः अमुष्मै नमोऽमुष्मै नमः इति गन्धादीन् ददाति १३
रौद्रीभिः ऋग्यजुस्सामाथर्वभिस्स्तुतिभिस्स्तुन्वन्त्यार्षैस्स्तोत्रैश्च नमस्कृत्य प्रयातु भगवान् महादेवः इति विसर्जयति १४
लिङ्गस्थानेष्वावाहनोद्वासनवर्जमहरहः स्वस्त्ययनमित्याचक्षत इत्याह भगवान् बोधायनः १५
इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने सप्तदशोऽध्यायः