अथ द्वितीयप्रश्ने षोडशोऽध्यायः
अथातो रुद्रप्रतिष्ठाकल्पं व्याख्यास्यामः १
चतुर्थ्यामष्टम्यामार्द्रायामपभरण्यां वा चतुर्दश्यां वा यानि चान्यानि शुभनक्षत्राणि तेषु पूर्वेद्युरेव युग्मान् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिं इति वाचयित्वा समागतायां निशायां कपिलापञ्चगव्येन सहिरण्ययवदूर्वाङ्कुराश्वत्थपलाशपर्णेन सुवर्णोपधानं प्रतिकृतिं कृत्वाभिषिञ्चति आपो हिष्ठा मयुभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन व्याहृतिभिश्च २
पुष्पफलाक्षतमिश्रयवदूर्वाङ्कुरं पादपीठे निक्षिपति नमस्ते रुद्र मन्यवे इति ३
प्रतिसरं बध्नाति रक्षोहणं वाजिनम् इति ४
अथ नदीतटाकह्रदनिर्झरसरस्तीर्थानामन्यतमेष्वहतेन वाससा कुशबन्धां मालामाच्छाद्याधिवासयति अवते हेडः उदुत्तमम् इति ५
अथ श्वोभूते स्नात्वाहतवाससश्चत्वारो ब्राह्मणाः प्रतिमामुत्थापयेयुः उत्तिष्ठ ब्रह्मणस्पते इति ६
अथ शुचौ देशे समवस्थाप्य गायत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयम् आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि शुक्रमसि ज्योतिरसीत्याज्यं देवस्य त्वा कुशादिकम् ७
इत्येतत्पञ्चगव्यं नाम ८
अत्राह कपिलाया वरं क्षीरं श्वेतायास्तु वरं दधि रक्ताया वरमाज्यं च शेषौ शबलकृष्णयोः इति ९
एतेन नमस्ते अस्तु धन्वने इत्यष्टाभिः स्नापयति १०
अथ शमापलाशखादिरबिल्वाश्वत्थविकङ्कतन्यग्रोधपनसाम्रशिरीषोदुम्बरसर्वयाज्ञिकवृक्षाणां चर्मकषायकलशेनाभिषिञ्चति अश्वत्थे वो निषदनम् इत्येतेन ११
मणिमुक्ताप्रवालानामप्सु निमग्नानां पूर्णकलशेनाभिषिञ्चति हिरण्यवर्णाः इति पूर्वोक्तेन १२
हिरण्येन तेजसा चक्षुर्विमोचयेत् तेजोऽसि इति १३
लिङ्गे चेन्निवर्तते चक्षुषोरभावात् १४
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात् कृत्वा पक्वाज्जुहोति या त इषुश्शिवतमा इत्यान्तादनुवाकस्य १६
अथाज्याहुतीरुपजुहोति द्रापे सहस्राणि इत्येताभ्यामनुवाकाभ्यां प्रत्यृचं सर्वो वै रुद्रः इति पादपीठे स्पृशेत् १७
पुनस्ताभिरेवाज्याहुतीर्जुहुयात् कद्रुद्राय इति नाभिदेशे स्पृशेत् १८
पुनस्ताभिरेवाज्याहुतीर्जुहुयात् नमो हिरण्यबाहवे इति मूर्ध्नि स्पृशेत् १९
पुनस्ताभिरेवाज्याहुतीर्जुहुयात् सर्वाङ्गमुपस्पृशेत् रुद्रेण समस्तेन २०
ततः उदु त्यं जातवेदसम् इत्युत्थाप्य पञ्चब्रह्मसञ्ज्ञकेन पञ्चानुवाकेन देवालयं प्रवेश्य मणिमुक्ताप्रवालसुवर्णरजतानि पादपीठे निधाय नमस्ते रुद्र मन्यवे इति रुद्रं स्थापयेत् २१
अथ गन्धपुष्पधूपदीपान्याकाशोन्मुखानि कृत्वा उपोत्थायावाहनं करोति प्रणवयुक्तव्याहृतीभिर्व्यस्ताभिस्समस्ताभिश्च ॐ भूः पुरुषमावाहयाम्यॐ भुवः पुरुषमावाहयाम्यॐ सुवः पुरुषमावाहयाम्यॐ भूर्भुवस्सुवः पुरुषमावाहयामि इति आयातु भगवान् महादेवः इत्यावाह्य रत्नाम्बुकलशेनाभिषिञ्चति प्रणवेन धारयेत् ब्रह्म इति विज्ञायते २२
प्रणवेन कूर्चं ददाति २३
विष्णुपदाश्यामाकपद्मपत्रकलशेन पाद्यं ददाति २४
एलालवङ्गतककोलकर्पूरमिश्रकलशेनाचमनीयं ददाति २५
आपःक्षीरकुशाग्रैश्चाक्षतैर्यवतण्डुलैः । यवैस्सिद्धार्थकैश्चार्ध्यं ददाति इमा आपश्शिवाश्शिवतमाः पूततमा मेध्या मेध्यतमा अमृता अमृतरसाः पाद्या आचमनीया अर्ध्यास्ता जुषतां प्रतिगृह्यतां प्रतिगृह्णातु भगवान् महादेवो रुद्राय नमः इति पाद्यमाचमनीयमर्ध्यं ददाति २६
नमस्ते रुद्र मन्यवे इति प्रतिसरं विस्रंसयति २७
देवतां नमस्कृत्याथ गन्धं ददाति इमे गन्धाश्शुभा दिव्यास्सर्वगन्धैरलङ्कृताः । पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः । प्रतिगृह्यतां प्रतिगृह्णातु भगवान् महादेवो रुद्राय नमः इति २८
अथ माल्यं ददाति इमे माल्याश्शुभा दिव्यास्सर्वमाल्यैरलङ्कृताः पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः प्रतिगृह्यतां प्रतिगृह्णातु भगवान् महादेवो रुद्राय नमः इति २९
अथ पुष्पं ददाति इमे पुष्पश्शुभा दिव्यास्सर्वपुष्पैरलङ्कृताः पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः प्रतिगृह्यतां प्रतिगृह्णातु भगवान् महादेवो रुद्राय नमः इति ३०
अथ धूपं ददाति वनस्पतिरसो धूपो धूपाढ्यो धूप उत्तमः आघ्रेयस्सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् प्रतिगृह्यतां प्रतिगृह्णातु भगवान् महादेवो रुद्राय नमः इति ३१
अथ दीपं ददाति ज्योतिश्शुक्रश्च तेजश्च देवानां सततं प्रियः भास्वरस्सर्वभूतानां दीपोऽयं प्रतिगृह्यताम् प्रतिगृह्यतां प्रतिगृह्णातु भगवान् महादेवो रुद्राय नमः इति ३२
अथ भवाय इत्यष्टाभिः पुष्पाणि दद्यात्तैरेव तर्पणानि कृत्वा कृसरं पायसं गुलोदनं हरिद्रोदनमिति हवींषि पवित्रं ते विततम् इति पायसं निवेदयेत् ३३
घृताप्लुतं पूर्णशरावं गुलोदनं निवेदयेत् ३४
कृसरमाज्यमिश्रं जुहुयात् भवाय देवाय स्वाहा इत्यष्टाभिः भवस्य देवस्य पत्न्यै स्वाहा इत्यादिभिः ३५
अथ हरिद्रोदनं जुहुयात् भवस्य देवस्य सुताय स्वाहा इत्यष्टाभिः ३६
अथ त्र्यम्बकं यजामहे मा नो महान्तं मा नस्तोके आर्द्रया रुद्रः हेती रुद्रस्य आरात्ते अग्निः विकिरिद विलोहित सहस्राणि सहस्रधा सहस्राणि सहस्रशः इति । द्वादशनामभिः शिवाय शङ्कराय सहमानाय शितिकण्ठाय कपर्दिने ताम्राय अरुणाय अपगुरमाणाय हिरण्यबाहवे सस्थिञ्जराय बभ्लुशाय हिरण्याय स्वाहा इति ३७
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ३८
हविषां बलिमुपहरति त्वामेकमाद्यं पुरुषं पुरातनं रुद्रं शिवं विश्वसृजं यजामहे । त्वमेव यज्ञो विहितो विधेयस्त्वमात्मनात्मन् प्रतिगृह्णीष्व हव्यम् इति ३९
अथाग्रेणाग्निमश्वत्थपर्णेषु हुतशेषं निदधाति भूर्भुवस्सुवरोम् इति ४०
द्विः चतुर्वा सहाग्निं प्रदक्षिणं परिक्रामति विश्वभुजे नमः । सर्वभुजे नमः । आत्मने नमः । परमात्मने नमः इति ४१
ब्रह्मचारी गृहस्थो वा द्वादश ब्राह्मणान् संयतान् हरिद्रोदनेन भोजयेत् ४२
सन्तिष्ठते प्रतिष्ठाविधिः ४३
इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने षोडशोऽध्यायः