अथ द्वितीयप्रश्ने पञ्चदशोऽध्यायः
अथातस्सम्प्रवक्ष्यामि विष्णोस्स्नपनमुत्तमम् प्रासादस्याग्रतो विद्वान् कुर्यात्स्वपनमण्डपम् १
मण्डपस्य च मध्ये तु वेदिकां सम्प्रकल्पयेत् अचलप्रतिष्ठितो यत्र देवस्तत्र न वेदिका २
तस्यास्समीपे तत्स्थाने कलशस्थानमुत्तमम् सङ्ख्या च नव तेषां तु स्थापनं प्रणवेन तु ३
यत्किञ्चित्क्रियते चात्र प्रणवेनैव कथ्यते स्थापनं कलशानां तु प्रागादीशानमन्ततः ४
एतेनैव क्रमेणात्र सर्वं कर्म विधीयते नवमं कलशं मध्ये स्थापयेदन्ततो बुधः ५
कूर्चेषु स्थापयेत्सर्वान् व्रीहिप्रस्थस्थितेषु च व्रीहयश्शालयः प्रोक्ताः कलशस्थापने बुधैः ६
तेषामभावे यत्किञ्चिद्ग्राम्यं धान्यमिहेष्यते पूरयेत्कलशान् सर्वान् शुद्धस्फटिकसन्निभैः ७
जलैस्तु मध्यमं तत्र पञ्चगव्येन पूरयेत् कूर्चान्निधाय सर्वेषु शरावैरपिधाय च ८
अरिक्तैरेव कर्तव्यः शरावैर्नवभिस्सदा अपिधानक्रिया तेषां शालिजैरेव तण्डुलैः ९
अर्चयेत्कलशान् सर्वान् गन्धपुष्पादिभिः क्रमात् प्राप्ते मुहूर्त आवाह्य परमात्मानमात्मवान् १०
पूर्वोक्तविधिनावाह्य देवमानीय वेदिकाम् अर्चयित्वा ततो विष्णुमर्चितैरेव सर्वशः ११
आनीतं वेदिकायां तु गोमयेनापरेण तु उपलिप्तेऽक्षतैः कीर्णे शालिभिर्व्रीहिभिश्च तत् १२
प्राङ्मुखं देवमासीनं सन्निदध्यात्ततः क्षणात् तत्रैव त्वचलस्थाने न चावाहनमिष्यते १३
तत्रैव नित्यसान्निध्याद्देवस्य परमात्मनः आसनादिक्रमाद्दद्यात्सूक्तं पौरुषमाश्रितः १४
ततः कलशमादाय कुर्यात्स्नपनमादितः मन्त्रा एते तु मन्तव्या स्नापने परमात्मनः १५
वैष्णवं सूक्तमापो हि हिरण्येति च सप्तकम् पवमानानुवाकं च सर्वे साधारणास्स्मृताः १६
अनुक्तमन्त्रं यत्किञ्चिन्न गृह्णीयात्ततो बुधः अनेन विधिवत्कृत्वा स्नापनं पुरुषस्य तु १७
दत्वा पायसमन्नं तु शेषं परिसमापयेत् नित्यदेवार्चने यत्स्यात् कलशस्नापनं तु वै १८
स्नापनस्य त्रयश्चोक्ताः ब्रह्मजज्ञानमन्त्रतः वामदेव्यं ततः कुर्यात्पवित्रं यजुषश्च यत् १९
पवमानानुवाकं च सर्वे साधारणास्स्मृताः विषुवायनसङ्क्रान्तौ चन्द्रसूर्यग्रहे तथा २०
अर्चनायाश्च विच्छेदे कदाचित्कालभेदतः उपघातेऽपि वान्यस्मिन् दुस्स्वप्ने तु भयङ्करे २१
आद्यं तु स्नापनं कुर्यात्सर्वशान्तिर्भविष्यति अथ देवोत्सवं कुर्यान्मुच्यते सर्वपातकैः २२
इह लोके परत्रापि सुखमेवास्य वर्धते पश्चाद्विष्णोश्च सायुज्यमेतीत्यत्र न संशयः २३
जगद्धिताय कृष्णाय स्नापनं कृतवान् हि यः इत्याह भगवान् बोधायनः २४
इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने पञ्चदशोऽध्यायः