द्वितीयप्रश्ने चतुर्दशोऽध्यायः
अथातो महापुरुषस्याहरहः परिचर्याविधिं व्याख्यास्यामः १
स्नातश्शुचिश्शुचौ समे देशे गोमयेनोपलिप्य देवस्य प्रतिकृतिं कृत्वाक्षतपुष्पैर्यथालाभमर्चयित्वा सह पुष्पोदकेन महापुरुषमावाहयेत् ॐ भूः पुरुषमावाहयाम्यॐ भुवः पुरुषमावाहयाम्यॐ सुवः पुरुषमावाहयाम्यॐ भूर्भुवस्सुवः पुरुषमावाहयामि इत्यावाह्य आयातु भगवान् महापुरुषः इति कुशैरासनं दद्यात् भगवतोऽयं कूर्चो दर्भमयस्त्रिवृद्धरितस्सुवर्णस्तं जुषस्व इति २
अथ सावित्र्या पात्रमद्भिः प्रक्षाल्य तिरःपवित्रमप आनीय पुनस्तेनैवापोऽभिमन्त्र्य सपवित्रेणादित्यं दर्शयेत् ओम् इत्यातमितोः ३
तासां त्रीणि पदा विचक्रमे इति पाद्यं ददाति ४
अथ व्याहृतिभिर्निर्वाल्यं व्योह्य इदं विष्णुविचक्रमे इत्यर्ध्यं दद्यात् ५
दिवो वा विष्णो इत्याचमनीयम् ६
अथैनं स्नापयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन ब्रह्म जज्ञानम् वामदेव्यर्चा यजुः पवित्रेण इति ७
अथाद्भिस्तर्पयति केशवं तर्पयामि इति द्वादशनामधेयैर्व्याहृतीभिः प्रदक्षिणमुदकं परिषिच्य प्रणवेन वासो ददाति सावित्र्या यज्ञोपवीतं इदं विष्णुर्विचक्रमे इत्याचमनीयं गन्धद्वाराम् इति गन्धं इरावती इत्यक्षतं तद्विष्णोः इति पुष्पं सावित्र्या धूपं उद्दीप्यस्व इति दीपं देवस्य त्वा इति हविर्निवेदनम् ८
अथास्मै द्वादशनामभिः पुष्पाणि दद्यात् । त्रीणि पदा विचक्रमे इति प्रतिपदं दद्यात् सुमृडीका भवन्तु नः इत्यन्तेन ९
अथैन वैष्णवीभि ऋग्यजुस्सामाथर्वभिः स्तुतिभिस्तुन्वन्ति १०
व्याहृतीभिः पुरुषमुद्वासयेत् ॐ भूः पुरुषमुद्वासयामि इत्यादिभिः प्रयातु भगवान् महापुरुषः क्षेमाय विजयाय पुनस्सन्दर्शनाय च इति ११
प्रतिमास्थानेष्वावाहनोद्वासनवर्जमहरहस्त्वाचक्षत इत्याह भगवान् बोधायनः १२
इति बोधायनीये गृह्यशेषे द्वितीयप्रश्ने चतुर्दशोऽध्यायः