अथ द्वितीयप्रश्ने त्रयोदशोऽध्यायः
अथातो विष्णुप्रतिष्ठाकल्पं व्याख्यास्यामः द्वादश्यामेकादश्यां श्रोणाया वा यानि चान्यानि शुभनक्षत्राणि तेषु पूर्वेद्युरेव युग्मान् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वा समागतायां निशायां कपिलापञ्चगव्येन सहिरण्ययवदूर्वाङ्कुराश्वत्थपलाशपर्णेन सुवर्णोपधानं प्रतिकृतिं कृत्वाऽभिषिञ्चति आपो हि ष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन व्याहृतीभिश्च १
पुष्पफलाक्षतमिश्रेर्यवदूर्वाङ्कुरं पादपीठे निक्षिपति इदं विष्णुर्विचक्रमे इति २
प्रतिसरमाबध्नाति रक्षोहणं वाजिनमाजिघर्मि इति ३
अथैनं नदीतटाकह्रदनिर्झरसरस्तीर्थानामन्यतमेष्वहतेन वाससा कुशबन्धमाल्यमाच्छाद्याधिश्रयति अव ते हेडः उदुत्तमम् इति ४
अथ श्वोभूते स्नात्वाहतवाससश्चत्वारो ब्राह्मणाः प्रतिमामुत्थापयेयुः उत्तिष्ठ ब्रह्मणस्पते इति ५
अथ शुचौ देशे समवस्थाप्य गायत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयम् । आप्यायस्वेति श क्षीरं दधिक्राव्णेति वै दधि । शुक्रमसि ज्योतिरसीत्याज्यं देवस्य त्वा कुशोदकम् । इत्येतत्पञ्चगव्यं नाम ६
अत्राह कपिलाया वरं क्षीरं श्वेतायाश्च वरं दधि । रक्तायास्तु घृतं श्रेष्ठं शेषौ शबलकृष्णयोः । इति ७
एतेन आ वो राजानम् इति स्नापयति ८
शमीपलाशखादिरबिल्वाश्वत्थविकङ्कतन्यग्रोधपनसाम्रशिरीषोदुम्बराणां सर्वयाज्ञिकवृक्षाणां चर्मकषायकलशेनाभिषिञ्चति अश्वत्थे वो निषदनम् इत्येतेनानुवाकेन ९
मणिमुक्ताप्रवालरजतताम्राणामप्सु निमग्नानां पूर्णकलशेनाभिषिञ्चति हिरण्यवर्णाम् इति नवर्चेन १०
हिरण्येन तेजसा चक्षुर्विमोचयेत् तेजोसि इति ११
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति विष्णोर्नुकम् इति पुरोनुवाक्यामनूच्य परो मात्रया इति याज्यया जुहोति १२
अथ पुरुषसूक्तेनाज्यहुतीरुपजुहोति इदं विष्णुर्विचक्रमे इति पादयोस्स्पृशेत् १३
पुनस्तेनैवाज्याहुतीर्जुहुयात् विष्णोर्नुकम् इति नाभिदेशेस्पृशेत् १४
पुनस्तेनैवाज्याहुतीर्जुहुयात् अतो देवा अवन्तु नः इति मूर्ध्नि स्पृशेत् १५
पुनस्तेनैवाज्याहुतीर्जुहुयादथ सर्वाङ्गं स्पृशेत्पौरुषेण सूक्तेन १६
होमान्ते उदु त्यं जातवेदसम् इत्युत्थाप्य शाकुनेन सूक्तेन देवालयं प्रवेश्य मणिमुक्ताप्रवालसुवर्णरजतानि पादपीठे निधाय अतो देवा अवन्तु नः इति विष्णुं स्थापयेत् १७
अथ गन्धपुष्पधूपदीपान्याकाशोन्मुखानि कृत्वोपोत्थाय आवाहनं करीति प्रणवयुक्तव्याहृतिभिर्व्यस्तैस्समस्तैश्च ॐ भूः पुरुषमावाहयाम्यॐ भुवः पुरुषमावाहयाम्यॐ सुवः पुरुषमावाहयाम्यॐ भूर्भुवस्सुवः पुरुषमावाहयामि इत्यावाह्य रत्नाम्बुकलशेनाभिषिञ्चति प्रणवेन धारयेत् ब्रह्म इति विज्ञायते १८
प्रणवेन कूर्चं ददाति १९
दूर्वाविष्णुक्रान्तश्यामाकपद्मपत्रकलशेन पाद्यं ददाति २०
एलालवङ्गतक्वोलकर्पूरमिश्रकलशेनाचमनीयं ददाति २१
आपःक्षीरकुशाग्रैश्चाक्षतैर्यवतण्डुलैस्तिलैस्सिद्धार्थकैश्चार्ध्यं ददाति २२
इमा आपश्शान्ताश्शिवाश्शिवतमाः पूताः पूततमा मेध्यामेध्यतमा अमृतां अमृतरसाः पाद्या आचमनीया अर्ध्यास्ता जुषन्तां प्रतिगृह्यन्तां प्रतिगृह्णातु भगवान् महाविष्णुर्विष्णवे नमः इति पाद्यमाचमनीयमर्ध्यं ददाति २३
इदं विष्णुर्विचक्रमे इति प्रतिसरं वित्रंसयति २४
देवतां नमस्कृत्वाथ गन्धं ददाति इमे गन्धाश्शुभा दिव्यास्सर्वगन्धैरलङ्कृताः पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः २५
प्रतिगृह्यतां प्रतिगृह्णातु भगवान् महाविष्णुर्विष्णवे नमः इति २६
माल्यं ददाति इमे माल्याश्शुभा दिव्यास्सर्वमाल्यैरलङ्कृताः पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः २७
प्रतिगृह्यतां प्रतिगृह्णातु भगवान् महाविष्णुर्विष्णवे नमः इति २८
पुष्पं ददाति इमे पुष्पाश्शुभा दिव्यास्सर्वपुष्पैरलङ्कृताः । पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः २९
प्रतिगृह्यतां प्रतिगृह्णातु भगवान् महाविष्णुर्विष्णवे नमः इति ३०
धूपं ददाति वनस्पतिरसो धूपो धूपेभ्यो धूप उत्तमः आघ्रेयस्सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ३१
प्रतिगृह्यतां प्रतिगृह्णातु भगवान् महाविष्णुर्विष्णवे नमः इति ३२
अथ दीपं ददाति ज्योतिश्शुक्रश्च तेजश्च देवानां सततं प्रियः भास्वरस्सर्वभूतानां दीपोऽयं प्रतिगृह्यताम् ३३
प्रतिगृह्ययां प्रतिगृह्णातु भगवान् महविष्णुर्विष्णवे नमः इति ३४
अथ द्वादशनामभिः पुष्पाणि दद्यात्तैरेव तर्पणानि कृत्वा कृसरपायसगुलोदनं हरिद्रोदनमिति हवींषि । पवित्रं ते विततम् इति पायसं निवेदयेत् । घृताप्लुतं पूर्णशरावं गुलोदनं निवेदयेत् । कृसरं तिलमिश्रमाज्यं जुहुयात् वासुदेवाय स्वाहा । सङ्कर्षणाय स्वाहा । प्रद्युम्नाय स्वाहा । अनिरुद्धाय स्वाहा । ईशान्यै स्वाहा । श्रियै स्वाहा । सरस्वत्यै स्वाहा । पुष्ट्यै स्वाहा । विष्णवे स्वाहा । पुरुषसूक्तेन विष्णोर्नुकं तदस्य प्रियं प्रतद्विष्णुः परोमात्रया विचक्रमे त्रिर्देवः इति द्वादशनामभिः अमुष्मै स्वाहामुष्मै स्वाहा इति स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ३५
अथ सर्वहविषां बलिमुपहरति त्वामेकमाद्यं पुरुषं पुरातनं नागयणं विश्वसृजं यजामहे । त्वमेव यज्ञो विहितो विधेयस्त्वमात्मनात्मन् प्रतिगृह्णीष्व हव्यम् इति ३६
अथाग्रेणाग्निमश्वत्थपर्णेषु हुतशेषं निदधाति भूर्भुवस्सुवरोम् इति ३७
द्विश्चतुर्वा प्रदक्षिणं साग्निं परिक्रामति विश्वभुजे नमः । सर्वभुजे नमः । आत्मने नमः । परमात्मने नमः । सर्वात्मने नमः इति ३८
ब्रह्मचारी गृहस्थो वा द्वादश ब्राह्मणान् संयतान् हरिद्रोदनं भोजयेत् । सन्तिष्ठते विष्णुप्रतिष्ठाविधिः ३९
इति बोधायनीयगृह्यशेषे द्वितीयप्रश्ने त्रयोदशोऽध्यायः