अथ द्वितीयप्रश्ने द्वादशोऽध्यायः
यथो एतद्ग्रहाणामुग्रचेष्टानां नक्षत्रपथचारिणामेवं विवाहं कुर्वन्त्यपरपक्षेऽशुभे दिने वाऽशुचिना वा विवाहं कुर्वन्ति विवाहेन नर्ध्नोतीति मन्येत वावसथात् पुनर्विवाहं कुर्वीत १
अथ चेदौपासनारम्भात् प्राक् ज्वलनस्य नाशः पुनर्विवाहं कुर्वीत २
अथ पुनर्विवाहं व्याख्यास्यामः ३
उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे पूर्वेद्युर्नान्दीमुखं कृत्वोपवसति ४
अथ श्वोभूते ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वोभौ शुची स्नातौ शुक्लवाससावलङ्कारेणालङ्कृत्य जायां समीक्षते अभ्रातृघ्नीम् इति प्रतिपद्य सप्तपदान्तं कृत्वाऽथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वाथास्या उपोत्थाय हृदयदेशमभिमृशतीति सिद्धमाधेनुवरप्रदानादत ऊर्ध्वं नाद्रियेत ५
अथ पुनर्विवाहेष्वेतानुत्सीदन्ति प्रतिसरं स्नानं वासः प्रतोदमिषुं च पूर्वं भोजनमर्ध्यं व्रतं त्रिरात्रमित्यादिविवाहशेषान् वर्जयेदित्याह भगवान् बोधायनः ६
इति बोधायनीयगृह्यशेषे द्वितीयप्रश्ने द्वादशोऽध्यायः