११

अथ द्वितीयप्रश्ने एकादशोऽध्यायः

अथाहुते प्रसिद्धमुपनयनम् १
एतावदेव नाना २
कुमारं भोजयित्वा गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य मङ्गलानि संस्तीर्य तेषु प्राङ्मुख आचार्य उपवेश्य तस्याग्रेण कुमारो दर्भेषु प्रत्यङ्मुख उपविश्योभयीरपस्सन्निषिञ्चत्युष्णासु शीता आनयति तस्य चौलवत्तूष्णीं केशानोप्य स्नाप्याच्छाद्यालङ्कृत्यादित्याभिमुखस्तिष्ठन् अजिनं वासो वा दक्षिणत उपवीय दक्षिणं बाहुमुद्धरतेऽवधत्ते सव्यमिति यज्ञोपवीतम् इति ब्राह्मणम् ३
यज्ञोपवीतिनमप आचमय्य देवयजनमुदानयति ४
कृष्णाजिनं ब्राह्मणस्येत्यादि । चतुरङ्गुलं ब्राह्मणस्य त्र्यङ्गुलं राजन्यस्य द्व्यङ्गुलं वैश्यस्योपवीतवत् बध्नाति ५
अथ सावित्रीं भो अनुब्रूहि इत्युक्त्वा कुमारस्य दक्षिणे कर्णे उपदिशेदित्येके । कर्णाभ्यां भूरि विश्रुतम् इत्युक्त्वोन्मुखावलोकनं कृत्वा वाचयति सावित्रीम् ६
अथ सायम्प्रातस्सन्ध्यां गृहस्थवत्समापयति ७
अथैनमग्निमुपसमाधाय प्रोक्षणीन्संस्कृत्य परिसमूह्य परिषिच्य व्याहृतीभिस्समिध आधापयतिषोढाविहितेनोपस्थापयति ८
तदाग्नेयं भस्म सङ्गृह्य वामपाणितके निक्षिप्य मा नस्तोके इत्यद्भिः शं नो देवीरभिष्टये इति संसृज्य सम्मेलय तिर्यक्त्रिपुण्ड्रमेकपुण्ड्रं वा ब्राह्मणस्य वर्तुलाकारं राजन्यस्यार्धचन्द्राकृतिं वैश्यस्य ९
अङ्गानि सन्धापयति सरस्वती इति शिरसि मेधावी इति ललाटे तेजस्वी इति वक्षसि वर्चस्वी इति दक्षिणेंऽसे ब्रह्मवर्चसी इत्युत्तरेंऽसे आयुष्मान् इति ग्रीवायां भूयासम् इति पिठरे स्वस्ति इति शिरस्यन्येषां स्त्रीणां वोर्ध्वपुण्डम् १०
प्रोक्षणीषु करं प्रक्षाल्य नमस्कृत्य प्रोक्षणीशेषं गेहस्योपरिष्टान्निनयेदित्याह भगवान् बोधायनः ११

इति बोधायनीये गृह्यशेषे द्वितीयप्रश्ने एकादशोऽध्यायः