अथ द्वितीयप्रश्ने दशमोऽध्यायः
अथातोऽश्वत्थसंस्कारं व्याख्यास्यामः १
ऋतुर्यथाकामी स्यात् २
पुण्ये नक्षत्र ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा प्रदक्षिणमश्वत्थं परिसमूहति अश्वत्थे वो निषदनम् इति ३
तमभ्यर्च्य यज्ञोपवीतं प्रतिमुञ्चति ४
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा याज्ञिकीं समिधमाज्येनाक्त्वा तूष्णीमाधापयति । यथालाभं तूष्णीं वासः परिधापयति । तूष्णीं मेखलां परिव्ययति । मन्त्रवद्ग्रन्थिं करोति । तूष्णीमजिनं प्रतिमुञ्चति । तूष्णीं दण्डं प्रयच्छति । याज्ञिकस्य वृक्षस्य नाम प्रयच्छति ५
अथाश्वत्थमुपनयेत् देवस्य त्वा इति नामग्रहणवर्जम् ६
आचार्य एव पक्वाज्जुहोति तत्सवितुर्वरेण्यम् इति ७
अथाज्याहुतीरुपजूहोति क्षेत्रियै त्वा इति षड्भिर्व्याहृतिभिश्च ८
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ९
अथाग्रेणाग्निं पलाशपर्णेषु हुतशेषं निदधाति । तत्पुरस्ताद्व्याख्यातम् १०
अथ पक्वादुपादायाथैनं निवेदयति ११
तूष्णीं सर्वान् मन्त्रानाचार्य एव जपेदित्याह भगवान् बोधायनः १२
इति बोधायनीये गृह्यशेषे द्वितीयप्रश्ने दशमोऽध्यायः