०९

अथ द्वितीयप्रश्ने नवमोऽध्यायः

अथ जडबधिरमूकानां संस्कारं व्याख्यास्यामः १
ऋतुर्यथाकामी स्यात् २
पुण्ये नक्षत्रे ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा केशानोप्य स्नातं शुचिवाससं बद्धशिखं यज्ञोपवीतिनमप आचमय्य देवयजनमुदानयति ३
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा याज्ञिकीं समिधमाज्येनाक्त्वा तूष्णीमभ्याधापयति । तूष्णीमश्मानं स्थापयति । यथालाभं तूष्णीं वासः परिधापयति । तूष्णीं मेखलां परिव्ययति । मन्त्रवद्ग्रन्थिं करोति । तूष्णीमजिनं प्रतिमुञ्चति । तूष्णीं दण्डं प्रयच्छति । याज्ञिकस्य वृक्षस्य नाम प्रयच्छति ४
अथैनं दक्षिणे हस्ते गृह्णाति यस्मिन् भूतं च भव्यं च इति ५ अथैनं देवताभ्यः परिददाति देवेभ्यस्त्वा इति ६
अथैनमुपनयति देवस्य त्वा इति सर्वं नामग्रहणवर्जम् ७
आचार्य एव पक्वाज्जुहोति तत्सवितुर्वरेण्यम् इति ८
अथाज्याहुतीरुपजुहोति क्षेत्रियै त्वा इति षड्भिर्व्याहृतिभिश्च ९
अथ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् १०
अथाग्रेणाग्निं याज्ञिकवृक्षस्य पर्णेषु हुतशेषं निदधाति तत्पुरस्ताद्व्याख्यातम् ११
अथ पक्वादुपादाय प्राश्नाति १२
तूष्णीं सर्वान् मन्त्रानाचार्य एव जपेदित्येके १३ षण्डजडक्लीबान्धव्यसनिव्याधितोन्मत्तहीनाङ्गबधिराधिकाङ्गामयाव्यपस्मारिश्वित्रिकुष्ठीदीर्घरोगिणश्चैतेन व्याख्याता इत्येके १४
सद्यो मधुपर्कं ददाति १५
तिसृषु व्युष्टासु मधुपर्कवदा व्रतातूष्णीम् १६
अथाग्निमुत्सृजति आयुर्दा अग्ने हविषो जुषाणः इति १७
पिता वा भ्राता वात्मनि समारोपयेदित्येके १८

इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने नवमोऽध्यायः