०८

अथ द्वितीयप्रश्ने अष्टमोऽध्यायः

अथ राजन्यवैश्ययोरुपनयनं प्रसिद्धम् १
एतावदेव नाना २ आचार्य एव पक्वाज्जुहोति ३
ब्रह्मसूत्रमवोद्धृत्य त्रिष्टुग्भी राजन्यस्य जिघर्म्यग्निम् आ त्वा जिघर्मिं आयुर्दा अग्ने हविषो जुषाणः इति । जगतीभिर्वैश्यस्य जनस्य गोपा अजनिष्ट जागृविः त्वामग्ने मानुषीरीडते विशः सप्त ते अग्ने समिधस्सप्तजिह्वाः इति ४ वैश्यस्य रथकारस्यैतावदेव नानाचार्य एव पक्वाज्जुहोति तत्सवितुर्वरेण्यम् इति ५
अथाज्याहुतीरुपजुहोति क्षेत्रियै त्वा निरृत्यै त्वा इति षड्भिरनुच्छन्दसम् । नात्र जगतीभिर्वैश्यस्य जुहोति ६
अथाग्रेणाग्निं हुतशेषं दत्वा विरमेत् ७
ब्राह्मणेन क्षत्रियायामुत्पन्नो ब्राह्मणवदेवैतावदेव नाना तस्य क्षेत्रियै त्वा इति व्याहृतीभिश्चेत्युपहोमः ८ क्षत्रियवदम्बष्ठस्य क्षेत्रियै त्वा इत्येवोपहोमः ९ क्षत्रियाद्वैश्यायामुत्पन्नः क्षत्रियवदेव क्षेत्रियै त्वा सावित्र्या चोपहोमः १०
वैश्याच्छूद्रायामुत्पन्नस्तूष्णीं वैश्यवत् ११
गायत्रीत्रिष्टुब्जगत्यः तत्सवितुर्वरेण्यम् आसत्येन युञ्जते मनः इति सावित्र्यो यथाक्रमं ब्राह्मणक्षत्रियवैश्यानाम् १२
उक्तं समावर्तनम् । समावर्तनप्रभृति स्नातकः पूर्वेण ग्रामान्निष्क्रमणप्रवेशनान्युत्तरेण वा वहिर्वाचं विसृजेदन्यत्र हस्तं दत्वां प्रसिद्धं स्नात्वा देवर्षिपितृंस्तर्पयित्वा दर्भेषु प्राङ्मुख उपविश्य दर्भान् दूर्वाश्च धारयमाणस्त्रीन् प्राणायामान् धारयित्वा सावित्रीं सहस्रकृत्व आवर्तयेच्छतकृत्वोऽपरिमितकृत्वो वा दशावरं वेदानधीत्य प्रश्नमनुवाकं वाऽधीयीत यावत्तरसम् इति विज्ञायते ततो गृहानेति यत्किञ्चिद्ददाति सा दक्षिणा इति ब्राह्मणम् १३
अथ दैवतान्यर्चयति वैश्वदेवं करोति प्रसिद्धं बलिहरणम् १४
अथ वै भवति पञ्च वा एते महायज्ञास्सतति प्रतायन्ते सतति सन्तिष्ठन्ते देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञः इत्येतदानुपूर्व्यं भवति १५
अथ देवयज्ञः देवेभ्यस्स्वाहा व्याहृतीभिश्च इति । अपि समिधं तद्देवयज्ञस्सन्तिष्ठते १६
अथ पितृयज्ञः ब्राह्मणान् भोजयेत् पित्र्यानपि वा दक्षिणेनाग्निं दक्षिणाग्रान् दर्भान् संस्तीर्य गन्धपुष्पधूपदीपैरभ्यर्च्यालङ्कृत्य तेषु पिण्डं ददाति पितृभ्यस्स्वधा नमः इति अप्यपस्तत्पितृयज्ञस्सन्तिष्ठते १७
अथ भूतयज्ञः उत्तरेणाग्निं प्रागग्रान् दर्भान् संस्तीर्य गन्धपुष्पधूपदीपैरलङ्कृत्य तेषु बलिमुपहरति भूतेभ्यो नमः इत्यापुष्पेभ्यस्तद्भूतयज्ञस्सन्तिष्ठते १८
अथ मनुष्ययज्ञः ब्राह्मणेभ्योऽन्नं दद्यादौदनपात्रात् तन्मनुष्ययज्ञस्सन्तिष्ठते १९
अथ ब्रह्मयज्ञः उक्तः २०
कथमु खलु नित्यानामनुक्रम इति सन्ध्योपासनमग्न्युपस्थानं नित्यस्वाध्यायगृहकर्मस्नानादित्योपस्थानतर्पणजपयज्ञगृहदेवतार्चनवैष्वदेवपञ्चमहायज्ञात्मयज्ञसन्ध्योपासनाग्रिहोत्रात्मयज्ञसवेशनानीत्येतान्युदितहोमिनोऽजस्राग्निहोत्रिणोऽनुदितहोमिनोऽग्निहोत्रं सन्ध्योपासनमिति क्रमः २१
एतानि नित्यान्युपव्युषमारभ्यासवेशनात् प्रसिद्धम् २२
साय प्रातस्सपत्नीकः प्रीतिं वर्धयेत् २३ तस्याः पत्न्याः पूर्वरात्रावुपसंवेशनमार्धरात्रादधश्शयनमा ब्राह्ममुहूर्तादथोपोत्थाय नित्यान्यारभते २४
इति व्याख्यातमुपनयनम् २५

इति बोधायनीयगृह्यशेषे द्वितीयप्रश्ने अष्टमोऽध्यायः