०७

द्वितीयप्रश्ने सप्तमोऽध्यायः

अथातो यज्ञोपवीतविधिं व्याख्यास्यामः १
जीर्णे छेदे विनाशे वा हस्तपादान् प्रक्षालयाप आचम्य ब्राह्मणकन्यकया वा ब्राह्मणविधवया वा शुचिस्नातया कृताचमनीयया निर्मितं सूत्रं गृहीत्वा ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य चतुरङ्गुलमात्र षण्णवतिसूत्रं परिमण्डलं वा द्वितीयमेवं तृतीयमद्भिः प्रक्षालय आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा देवागारे गवां गोष्ठे नदीतीरे शुचौ देशे वा यत्र यत्र शुचिर्देशस्स्यात् बिल्वखादिरपलाशोदुम्बराश्वत्थवेण्वादियाज्ञिकवृक्षशाखायामवलम्ब्य सजीवं बध्नाति पितृभ्यो नमः इति प्रथममपसव्यम् २
सम्पन्ने हस्ते गृहीत्वा प्रतिष्ठापयति ॐ भूः प्रतिष्ठापयामि ॐ भुवः प्रतिष्ठापयामि ॐ सुवः प्रतिष्ठापयामि ॐ भूर्भुवस्सुवः प्रतिष्ठापयामि इति प्रतिष्ठाप्यापसव्यकृतं जपति भूर्भुवस्सुवः । ओजो बलम् इत्येतमनुवाकम् ३
अथ सावित्र्या त्रिगुणीकृत्य भूरग्निं च इति दक्षिणावृत्तिमभिमन्त्रयेत् भुवो वायुं च इति मध्यमावृत्तिं सुवरादित्यं च इत्युत्तरां भूर्भुवस्सुवश्चन्द्रमसं इति त्रिधावृत्तिं च ४
अथ सूत्रान्तेन बध्नाति यथा नश्श्रेयसः करत् इति चतुर्भिर्मध्ये द्विगुणं भवति ५
तां भूः प्रतिष्ठापयामि इति पुनः प्रतिष्ठाप्य उशन्तस्त्वा हवामहे इत्यृचं जपित्वा प्रदक्षिणतो दृढं करोति ६
त्रयाणां ब्रह्मेश्वरविष्णूनां प्रमाणं कृत्वा ७ तन्तुद्विगुणितं सूत्रं विष्णुना त्रिगुणीकृतम् चतुर्वेदस्य चत्वारि त्रिवेदस्य त्रिकं भवेत् द्वे स्यातां वै द्विवेदस्य एकमेवैकवेदिनः ८
इति यज्ञोपवीतविधिर्व्याख्यातः ९

इति बोधायनीयगृह्यशेषे द्वितीयप्रश्ने सप्तमोऽध्यायः