०६

द्वितीयप्रश्ने षष्ठोऽध्यायः

अथातः पुत्रप्रतिग्रहकल्पं व्याख्यास्यामः १ शोणितशुक्लसम्भवो मातृपितृनिमित्तकस्तस्य प्रदानपरित्यागविक्रयेषु मातापितरौ कर्तारौ भवतो न त्वेकं पुत्रं दद्यात् प्रति गृह्णीयाद्वा स हि सन्तानाय षूर्वेषाम् २
न तु स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद्वाऽन्यत्रानुज्ञानाद्भर्तुः ३
पुत्रं प्रतिग्रहीष्यन्नुपकल्पयते द्वे वाससी द्वे कुण्डले अङ्गुलीयकं चाचार्यं च वेदपारगं कुशमयं बर्हिः पर्णमयमिध्ममिति ४
अथ बन्धूनां मध्ये राजनि चावेद्य दरिषदि वाऽगारमध्ये ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्यृद्धिम् इति वाचयित्वाऽथ देवयजनोल्लोखनप्रभृत्याप्रणीताभ्यः कृत्वा दातुस्समीपं गत्वा पुत्रं मे देहि इति मिक्षेत ददामि इतीतर आह ५
तं पुत्रं प्रतिगृह्णाति धर्माय त्वा गृह्णामि सन्तत्यै त्वा गृह्णामि इति ६
अथैनं वस्त्रकुण्डलाभ्यामङ्गुलीयकेन चालङ्कृत्य परिधानप्रभृत्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति यस्त्वा हृदा कीरिणा मन्यमानः इति पुरोनुवाक्यामनूच्य यस्मै त्वं सुकृते जातवेदः इति याज्यया जुहोति ७
अथ आज्याहुतीरुपजुहोति व्याहृतीभिर्हुत्वा स्विष्टकृन्प्रभृति सिद्धमाधेनुवरप्रदानात् ८
अथ दक्षिणां ददात्येते एव वाससी एते एव कुण्डले एतच्चाङ्गुलीयकम् ९
यद्येवं कृते औरसः पुत्र उत्पद्यते तुरीयभागेष भवतीति ह स्माह भगवान् बोधायनः १०

इति बोधायनीयगृह्यशेषे द्वितीयप्रश्ने षष्ठोऽध्यायः