०५

अथ द्वितीयप्रश्ने पञ्चमोऽध्यायः

अथ माघमासे शुक्लपक्षस्य सप्तम्यां ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वाऽथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वाऽग्रेणाग्निमादित्यमालिख्य सम्परिस्तीर्य षोडशभिरर्कपर्णैरभ्यन्तराग्रैः प्रदक्षिणं मण्डलमास्तीर्य गन्धोदकेनाभ्युक्ष्य पुष्पैरवकीर्य धूपेनाधिवास्य तस्मिन् प्रणीतामद्भिः पूर्णां कृत्वोत्पूयादित्यमावाहयेत् १ आदित्यं नावमरोक्ष्ये पूर्णामुपरिवासिनीम् । अच्छिद्रां पारयिष्णुं शतारित्रां स्वस्तय ॐ नम आदित्याय इति २ परिधानप्रभृत्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति आयातु देवस्सवितोपयातु हिरण्ययेन सुवृता रथेन । वहन् हंस्त सुभगं विद्मनापसं प्रयच्छन्तं पपुरिं पुण्यमच्छ इत्येकामाहुतिं हुत्वोत्तरार्धात् स्विष्टकृतमवदायान्तःपरिधि सादायित्वा बहुप्रकाररैरन्नैरादित्यं तर्पयति ॐ नमो भगवत आदित्याय नमः । क्लं नदीवृत्तिस्तटीरुवो नावमर्णालिसुरिणोरोरुमिविरिकिताकुनानारुसन्ध्यतुमे मन्त्रवदानि स्वाहा इति ३
अथाज्याहुतीरुपजुहोति स्थविरे स्वाहा तेजसे स्वाहा यमिन्द्रमाहुके स्वाहा इद्वयम् उदुत्यं चित्रं तच्चक्षुः य उदगात् हमश्शुचिषत् वयस्सुमर्णाः अविश्वदेवं सूर्यो देवीम् इति चत्वरि सूक्तानि । द्वादश सम्पद्यन्ते द्वादश मासास्संवत्सरस्संवत्सरेण सर्वान् कामानवाप्नेति ४
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ५
तर्पयित्वा मनसा तान् ध्यात्वा प्रवाहयति उदस्ताम्प्सीत्सविता मित्रो अर्यमा सर्वानमित्रानवधीद्युगेन । बृहन्तं मामकग्द्वीरवन्तं रथन्तरे श्रयस्व स्वाहा पृथिव्यां वामदेव्ये श्रयस्व स्वाहाऽन्तरिक्षे बृहति श्रयस्व स्वाहा दिवि बृहता त्वोपस्तभ्नोमि इति ६
अथैना आदाय साहर्कपर्णैरुत्तिष्ठति उदायुषा इति ७
यत्रापस्तद्गत्वाऽपो निनयति समुद्रं वः प्रहिणोमि स्वा योनिमपि यच्छत । अच्छिद्रः प्रजाया भूयासं मा परासेचिमत्पयः इति ८
सपवित्रेण पाणिनाऽद्भिर्मार्जयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा याः सुगन्धा रसा वर्णाः इत्येताभिरिति ९
एत द्वन्यं पुण्यं पुत्र्यं पौत्र्यमायुष्यं स्वर्ग्यं सूर्याचन्द्रमसोस्सायुज्यं सलोकतामाप्नोतीति दीपयेदमुनेति १०

इति बोधायनीयगृह्यशेषसूत्रे द्वितीयप्रश्ने पञ्चमोऽध्यायः