अथ द्वितीयप्रश्ने चतुर्थोऽध्यायः
अथ प्रजार्थिहोमः १
पूर्वपक्षे पुण्ये नक्षत्रेऽमावास्यायां विषुवेऽयने वा नदीतीरेऽश्वत्थच्छायायां वा गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलं कृत्वा ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्यृद्धिम् इति वाचयित्वा प्राच्यां दिशि ब्रह्माणं प्रतिष्ठाप्य पार्श्वयोर्धातारं विधातारं दक्षिणतो धातारमुत्तरतो विधातारम् २
ततस्तानर्चयेत्पूर्वं ब्रह्माण प्रजापतिं परमेष्ठिनं हिरण्यगर्भमावाहयामि इत्यावाह्य सावित्र्या पाद्यं ददाति सावित्र्या निवेदयेदतैरेव नामधेयैश्शुक्लान्नं ब्रह्मणे मुद्गान्नं धातुः पीतान्न विधातुः ३
ततस्सावित्र्या अप आचम्य प्रणवेनाष्टशतं हुत्वा ब्रह्माणमुपतिष्ठते नमो वाचे नमो वाचस्पतये नमो ब्रह्मणे बृहते करोमि इत्येवं नमो धात्रै नमो विधात्रे इति ४
अग्निमुपतिष्टेत नमोऽग्नये सप्तार्चिः सप्त जिह्वाः सप्तधाऽग्निः प्रतिष्ठितः । सप्तैव विश्वा भूतानि को ह्यग्निः प्रतितिष्ठति । तत्त्वमसि विश्वमसि योनिरसि इति ५
अथ स्त्रियमाहूय सावित्र्या पलाशपर्णैरष्टोत्तरसहस्रैः स्नापयित्वा पुरुषसूक्तेन जुहुयात्तत्सम्पातेन मूर्ध्नि जुहुयात् प्रणवेन नमस्कुर्यात् ६
अध्वर्युं वस्त्रकुण्डलाभ्यामलङ्करोति ७
ततस्सा गर्भिणी भवतीत्याह भगवान् बोधायनः ८
इति बोधायनीये गृह्यशेषे द्वितीयप्रश्ने चतुर्थोऽध्यायः