अथ द्वितीयप्रश्ने तृतीयोऽध्यायः
अथ मङ्गलानि आवृतः स्त्रीभ्यः प्रतीयेरन्निन्वकाभिः प्रसृता वरैः प्रतिनन्दिता यां कामयेत दुहितरं प्रिया स्यादिति । तां निष्ट्यायां दद्यात् । प्रियैव भवति । नेव तु पुनरागच्छति इति ब्राह्मणावेक्षो विधिः १
इन्वकाशब्दो मृगशीर्षे निष्ट्याशब्दः स्वाताविति २
सुप्तां रुदतीं निष्क्रान्तां वरणे परिवर्जयेत् ३
दत्तां गुप्तां द्योतामृषभां विनतां शरभां विकटां मुण्डां मण्डूषिकां साङ्कारिकां रातां पालीं मित्रां स्वनुजां वर्षकारीं च वर्जयेत् ४
नक्षत्रनामाः नदीनामाः वृक्षनामाः पर्वतनामाः प्रेष्यनामाः पक्षिनामाः पिशाचनामाश्च गर्हिताः सर्वाश्च रेफलकारोपान्ता वरणे परिवर्जयेत् ५
शक्तिविषये द्रव्याणि प्रतिच्छन्नान्युपनिधाय ब्रूयुरुपस्पृशेति नानाबीजानि संसृष्टानि वेद्याः पांसून् क्षेत्राल्लोष्टं शकृच्छ्मशानलोष्टमिति पूर्वेषामुपस्वर्शने यथालिङ्गमृद्धिरुत्तमं परिचक्षते ६
बन्धुशीललक्षणसम्पन्नामरोगामुपयच्छेत ७
बन्धुशीललक्षणसम्पन्नः श्चुतवानरोग इति वरसम्पत् ८
यस्यां मनश्चक्षुषोः निबन्धस्तस्यामृद्धिर्नेतरदाद्रियेतेत्येके ९
अथ यद्यससम्भवेप्सु स्यात्तां परेषां स्थूलाढारिकाजीवचूर्णानि कारयित्वा सुप्तायां सम्बाध उपवपेत् अवज्यामिव धन्वनो हृदो मन्युं तनोमि ते । इन्द्रापास्य पलिगमन्येभ्यः पुरुषेभ्योऽन्यत्र मत् इति १०
सिद्ध्यर्थे बभ्रुमूत्रेण प्रक्षालयति ११
अथ विजननकाले क्षिप्रंसुवनं शिरस्त उदकुम्भं निधाय षत्तस्तूर्यन्तीमथास्या उदरमभिमृशति यथैव वायुः पवते यथा समुद्र एजति । एवं ते गर्भ एजतु सह जरायुणाऽपसर्पतु इति १२
अथ यदि जरायुर्न पतेद्दर्भैरेव जठरं सम्माष्टि तिल देऽवपद्यस्व न मांसमसि नो दलम् । स्थवित्र्यवपद्यस्य स्वप्स्ये इति १३
प्रसिद्धं जातकर्म १४
इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने तृतीयोऽध्यायः