०२

अथ द्वितीयप्रश्ने द्वितीयोऽध्यायः

अथ गर्भाधानं व्याख्यास्यामः पूर्वपक्षे पुण्ये नक्षत्रे ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्यृद्धिम् इति वाचयित्वाथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति प्रवेधसे कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । यतोऽभयमभयं तन्नो अस्त्वव देवान् यजे हेड्यान् स्वाहा इति १
स्विष्टकृतमवदाय तमन्तःपरिधि सादयित्वाथाज्याहुतीरुपजुहोति ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहा कनिष्ठाय स्वाहा कनिष्ठित्यै स्वाहा प्रतिष्ठाय स्वाहा प्रतिष्ठित्यै स्वाहा दम्पत्यै स्वाहा अयने स्वाहा अयनपतये स्वाहा प्रजापतये स्वाहा ब्रह्मणे स्वाहा इति २
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ३
हविष्यमन्नमभिमन्त्रयते तत्सवितुर्वृणीमहे वयं देवस्य भोजनम् श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहि इति ४
अपरेणाग्निमुभौ जायापती प्राश्नीयाताम् तस्सवितुर्वरेण्यम् इति ५
प्राश्याथ आचम्य जठरमभिमृशति यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम् ६
यं कामं कामयते तं मनसा ध्यायेदिति गर्भाधानं व्याख्यातम् ७

इति बोधायनीये गृह्यशेषे द्वितीयप्रश्ने द्वितीयोऽध्यायः