अथ द्वितीयप्रश्नप्रारम्भः
अथातः पञ्चमीश्राद्धं व्याख्यास्यामः शैशिरे मास्यारभ्य शुक्लपक्षस्य पञ्चम्यां कृष्णपक्षस्य सप्तम्यां च पुत्रकामी संवत्सरं दीक्षां कृत्वा तस्मात्पूर्वेद्युस्सायमौपासनहोमे हुते प्राचीनावीती सङ्कल्पयेत् प्रथमसंवत्सरं कर्ताऽस्मि इति १
मनसा सङ्कल्पे कृते सायमनशनः त्र्यवरान् ब्राह्मणान् निमन्त्रयते २
पादप्रक्षालनं कृत्वा गन्धादिभिरलङ्कृत्य पुत्रानिच्छे वः पञ्चमं श्राद्धं भविता तत्र भवद्भिः प्रसादः करणीयः इति ३
अपरेद्युरामन्त्र्य पादप्रक्षालनं कृत्वा अद्य श्राद्धं भवति इति ४
मध्याह्ने तृतीयमामन्त्रणम् ५
अवटखननादि मासिश्राद्धवत् ६
पितॄणां श्राद्धं मातामहानां च श्राद्धं कुर्यादिति ७
अथाऽग्निमुखात्कृत्वा मासिश्राद्धवद्धोमं कृत्वा पृथक्पृथग्घोमं च कुर्यात् ८
वस्त्राभरणकुण्डलाद्यैरलङ्कृत्य रिद्धं भवतु इति वाचयित्वा तान् भोजयेत् ९
भोजनवेलायां दिवाकीर्त्यपठनं पुण्यकथनं स्मृतिपठनं च १०
खाचान्तान् प्रणम्य भुक्तदक्षिणां यथाशक्ति दत्वा पुनस्सिद्धं वाचयित्वा तान् विसृज्य द्वारान्तमनुव्रज्य पिण्डदानानि मासिश्राद्धवत्कृत्वा ततश्शेषं दम्पती अश्नीयाताम् ११
मध्यमपिण्डां पत्नीं प्राशयति १२
षूर्वेद्यू रात्रावपरेद्यू रात्रौ च भोजनं मैथुनादि न कुर्याद्ये श्राद्धभोजिनश्च १३
एवं कुर्वन् पुत्रस्सगणोपेतो भवति पुत्रो न शीर्यते तस्मात्पञ्चमीश्राद्धं कुर्यात् १४
पुत्त्र इति निर्वचनम् पुदिति नरकस्तस्मात्त्रायते इति पुत्त्रोऽपुत्त्रस्य गतिर्नास्सीत्याह भगवान् बोधायनः १५
इति बोधायनीये गृह्यशेषे द्वितीयप्रश्ने प्रथमोऽध्यायः