२४

प्रथमप्रश्ने चतुर्विंशोऽध्यायः

अथातश्शताभिषेकं व्याख्यास्यामः १
शतसंवत्सरं जीवतस्सहस्रचन्द्रदर्शिनो वोदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रेऽथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वाऽग्रेणाग्निं व्रीहिभिर्यवैर्वा मिश्रितं सुवर्णं संव्रतानुगुणं चतुरश्रं स्थण्डिलं करोति २
तत्र सुवर्णरजतताम्रमृण्मयैर्वा कलशैस्तन्तुना परिवृतैः प्रक्षाल्य मध्ये प्रधानकलशं निधाय गन्धपुष्पधूपदीपैः फलै रत्नैरवकीर्यैन्द्रादिक्रमेण दक्षिणापरोत्तरान् कलशान् स्थापयित्वा तिरः पवित्रं निधाय शुद्धोदकेन पूरयित्वा मध्ये प्रधानकलशे नवरत्नैरवकीर्याहतेन वाससा प्रतिच्छाद्य गन्धपुष्पधूपदीपैरलङ्कृत्य मध्ये प्रधानकलशे ब्रह्माणमावाहयत्यैन्द्रादिक्रमेण प्रजापतिं परमेष्ठिनं चतुर्मुखं हिरण्यगर्भमावाहयामि इत्यावाह्य परिधानप्रभृत्याग्निमुखात्कृत्वा दैवतमर्चयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वाऽथैनान् गन्धपुष्पधूपदीपैः अमुष्मै नमोऽमुष्मै नमः इति । अन्नेन अमुष्मै स्वाहाऽमुष्मै स्वाहा इति ३
अथ पक्वाज्जुहोति आयुष्टे विश्वतो दधत् इति पुरोनुवाक्यामनूच्य आयुर्दा अग्ने इति याज्यया जुहोति ४
अथाज्याहुतीरुपजुहोति ब्रह्मसूक्तेन ब्रह्म जज्ञानम् इति षड्भिः अग्निरायुष्मान् इति पञ्चभिः पर्यायैस्स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ५ अथाग्रेणाग्निं दूर्वास्तम्बेषु हुतशेषं निदधाति आयुष्टे आयुर्दां अग्ने इति द्वाभ्याम् ६
अथैनमद्भिरभिषेकं करोति यासु गन्धा रसा वर्णाः इति चतसृभिः प्रत्यृचं प्रधानकलशेनाभिषिञ्चति ऐन्द्रादिक्रमेण याः प्राचीः इति चतसृभिरनुच्छन्दसमभिषेकं करोति । या ऊर्ध्वाः इति प्रधानकलशशेषेणाभिषिञ्चति ७
अहतानि वासांसि परिधायाप आचम्यालङ्कृत्य तत आदित्यमुदीक्षयति उद्वयं तमसस्परि उदु त्य चित्रं तच्चक्षुर्देवहितम् य उदगात् इति ८ अथैतेनैव यथेतमेत्यैरकां साधिवासामास्तीर्य तस्यां प्राङ्मुख उपविश्य सुवर्णरजतताम्रकांस्ये वा पात्रे हविराज्यं हिरण्यं निधाय निमील्योन्मील्यावेक्ष्य ब्राह्मणाय प्रयच्छति ९
अथ रथमारुह्य ग्रामं प्रदक्षिणीकृत्य दुन्दुभिशब्देन स्वस्तिसूक्तेन गृहं प्रविश्य गुरवे वरं दत्वा ब्राह्मणान् सम्पूज्याशिषो वाचयित्वा दश पूर्वान् दशापरानात्मानं च एकविंशतिं पङ्क्तिं च पुनाति पुत्रपौत्रैश्च षष्टिर्वर्षसहस्राणि स्वर्गलोकमतीय ब्रह्मणस्सायुज्यं सलोकतामाप्नोतीत्याह भगवान् बोधायनः १०

इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने चतुर्विंशोऽध्यायः