२३

अथ प्रथमप्रश्ने त्रयोविंशोऽध्यायः

अथातो राजाभिषेकं व्याख्यास्यामः १
पूर्वपक्षस्व पञ्चम्यां त्रयोदश्यां तिष्ये श्रोणायां वा यानि चान्यानि शुभानि नक्षत्राणि तेषु पूर्वेद्युरेव युग्मान् ब्राह्मणान् भोजयेत् २
आशिषो वाचयित्वा योनिगोत्रश्रुतवृत्तसम्पन्नं ब्राह्मणं पुरोहितं वृणीत आकूत्यै त्वा कामाय त्वा इति ३
पुरोहितो जपति आकूतिमस्यावसे । काममस्य समृद्ध्यै । इन्द्रस्य युञ्जते धियः इति ४
स्वयं जपति आकूतिं देवीं मनसः पुरोदधे यज्ञस्य मातां सुहवा मे अस्तु । यदिच्छामि मनसा सकामो विदेयमेनद्धृदये निविष्टम् इति ५
अथास्तमित आदित्ये पद्माकृतिं मण्डल कृत्वोपकल्पयते व्रीहिभिर्यवैस्तिलमाषैः पञ्चगव्यैस्सामुद्राश्चापो नद्याश्चौदुम्बरं भद्रासनं व्याघ्रचर्म हेमकलशैर्गोशृङ्गैश्च सम्भृत्य सह सादयति यत्सह सर्वाणि मानुषाणि इत्येतस्मात् ब्राह्मणात् ६
उत्तरपूर्वे देशेऽगारस्य पाकयज्ञविधानेन व्रीहिभिर्यवैस्तिलमाषैर्व्यांहृतिभिर्महाव्याहृतिभिस्सावित्र्या च त्रियम्बकेनाष्टसहस्रं जुहोति ७
अथ दक्षिणार्धे श्रीसुक्तविधानेन श्रीदेवीमाराध्य मकुटं प्रक्षालयति ८
गायत्र्या गृह्य गोसूत्रं गन्धद्वारेति गोमयम् । आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि । शुक्रमसीत्याज्यं देवस्य त्वेति कुशोदकम् । इति ९
मकुटं प्रक्षाल्य प्रतिसरं बध्नाति प्रतत्ते अद्य शिपिविष्ट इति १०
राजानं राजवाहनं चाग्रेऽभिषिञ्चेत् ११
अथैतां रात्रिमुपविशेत् संविशेद्वा १२
अथोदित आदित्ये भद्रासनं निधाय तत्मिन् व्याघ्रचर्मास्तीर्यं तस्मिन् प्राङ्मुख उपविश्य हेमकलशानादाय आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिर्गृह्णाति १३
अव ते हेडः उदुत्तमम् इति द्वाभ्याम् आपो भद्राः आदित्पश्यामि इति चाभिषिच्य अब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिरन्यैश्च पवित्रमन्त्रैरथ शृङ्गोदकैश्चाभिषिञ्चति १४
अपां यो द्रवणे रसस्तमहमस्मा आमुष्यायणाय तेजसे श्रियै यशसे ब्रह्मवर्चसायान्नाद्यायाभिषिञ्चामि इति सम्मृष्टे समुत्क्रोशन्तीति समानमामुखस्य विमार्जनात् १५ एतस्मिन् काले राजवाहनं चाभिषिञ्चेत् १६
स्नापयित्वा ब्राह्मणेभ्यो निष्कसहस्रं दासीशतं ददाति १७ स्वस्त्ययनं वाचयित्या मकुटं वा पट्टं वा करोति अग्ने यशस्विन् यशसेममर्पय इति १८
अथ दुन्दुभिशब्दं करोति दुन्दुभीन् समाघ्नन्ति इति ब्राह्मणम् १९
प्रदक्षिणीकृत्य स्वराष्ट्रमनुपालयतीत्याह भगवान् बोधायनः २०

इति बोधायनगृह्यशेषे प्रथमप्रश्ने त्रयोविंशोऽध्यायः