२२

अथ प्रथमप्रश्ने द्वाविंशोऽध्यायः

सर्वपापहरं चैव सर्वव्याधिविनाशनम् तृणगर्भं प्रवक्ष्यामि विद्धि धर्म्यं सनातनम् १
सङ्क्रमेषु च सर्वेषु ग्रहणे चन्द्रसूर्ययोः पर्वणोरुभयोश्चैव जन्मनि श्रवणे तथा २
सरोगाभिभवे चैव व्यतीपाते तथैव च गोमयेनोपलिप्ते तु शुचौ देशे समारभेत् ३
चतुर्णामपि वर्णानां संस्कारश्च तथा भवेत् गृहीत्वा ब्राह्मणान् शुद्धान् चतुरो वेदपारगान् ४
आचार्यं च द्विजश्रेष्ठं सर्वशास्त्रविशारदम् प्रागादिषु प्रतिष्ठाप्य तान् विप्रान् दिक्षु मध्यतः ५ व्रीहिभिस्स्थण्डिले शुद्धैश्चतुरश्रं तु कान्येत् तन्मध्ये लेखयेत्पद्मं स्वर्णपद्मं ततः क्षिपेत् ६
तस्योपरि समासीनं वस्त्रे वस्त्रेण संवृतम् आशिषो वाचयित्वा तु गुरुविप्रैस्समन्वितः ७
प्रच्छाद्य तु तृणैश्शुर्द्धैदूर्वाभिश्च विशेषतः विष्णोर्नामसहस्रं वा शैवं वापि तथा जपेत् ८
गायत्रीमथ वा शैवं वैष्णवं मा जपेद्गुरुः जपेयुः परितो विप्रास्तथा मन्त्रांश्च वैष्णवान् ९
ततस्तृणं समुत्थाप्य मधुपर्कं क्रमेण तु प्रोक्षयेत्पावमानीभिर्घृतपात्रं निरीक्षयेत् १०
गुरोश्च दक्षिणां दद्यात् ब्राह्मणेभ्यश्च शक्तितः वस्त्रे च गुरवे दद्याद्धिरण्यं च विशेषतः ११
घृतपात्रं च तस्यैव नमस्कुर्याच्च तं गुरुम् दत्वैव विधिना तेभ्यो दक्षिणां च विशेषतः १२
विष्णुलोकमवाप्नोति शिवलोकमथापि वा सर्वरोगविनिर्मुक्तः सर्वान् कामानवाप्नुयात् १३
गोसूक्तेन तृणं दद्यात् गवामेव विशेषतः यश्शृणोति पठेद्वापि स याति परमां गतिम् १४
यो देवस्य प्रियो विद्वान् देवस्य पदमाप्नुयात् देवस्य पदमाप्नुयादित्याह भगवान्बोधायनः १५

इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने द्वाविंशोऽध्यायः