२१

अथ प्रथमप्रश्ने एकविंशोऽध्यायः

यमयज्ञः स्वयं प्रोक्तः प्रवक्ष्ये विधिमुत्तमम् मासि मासि तु कर्तव्यो ह्यन्तकाय बलिस्तथा १
मेधाकामोऽर्थकामो वा पुत्रकामस्तु वै द्विजः याम्योऽहनि सनक्षत्रे सर्वान् कामात् समश्नुते २
संवत्सरस्य कार्तिक्यां बलिं कुर्वीत यत्नतः अकुर्वन्नह्नि कार्तिक्यां नरके तु निमज्जति ३ तस्मात्कुर्वीत कार्तिक्यां सर्वकामस्तु वै द्विजः तिलप्रस्थस्य कर्तव्यं गुडमिश्रं तथा हविः एकेन न तु कर्तव्यः कर्तव्यो बहुभिस्सह ४
हविरुद्वास्याभिमृश्य हविरादाय ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्यानिर्णवदेशे नदीतीरे समे वान्यस्मिन् शुचौ देशे दिक्षु सृक्तिं वेदिं करोति मृण्मयीं सिकताभिर्वा ५
तिस्र उत्तरवेद्या दिशासृक्तयो भवन्ति ६
दक्षिणेन करकूपं खात्वोत्तरेणाग्निं प्रतिष्ठाप्य दर्भैरुत्तरवेदिं च प्रच्छादयति । प्रागगैस्तथैव विष्टरं निधाय प्रस्तरं निधाय प्रस्तरे च आयातु देवस्सुमनाभिरूतिभिर्यमो ह वेह प्रयताभिरक्ता । आसीदतां सुप्रयते ह बर्हिष्यूर्जाय जात्यै मम शत्रुहत्यै इति यममावाह्य यमे इव यतमाने यदैतं प्रवा भरन् इति च इमं यम प्रस्तरमा हि सीद इति तिसृभिः प्रस्तरमभिमन्त्र्य पवित्रपाणिरर्घ्यपाद्याचमनीयस्नानीयं च प्रदाय वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिरिति मार्जयित्वा सर्वसुरभिगन्धमाल्यं च प्रदाय यथोपलब्धं ददाति ७
कृष्णाः प्रतिसराः कृष्णसूत्रं वा ८
मध्यमेन पलाशपर्णेनाज्येनाग्निमन्वारब्धे जुहुयात् यमाय स्वाहा । अन्तकाय स्वाहा । धर्माय स्वाहा । अनन्ताय स्वाहा । वैवस्तताय स्वाहा । मृत्यवे स्वाहा । विष्णवे स्वाहा इति ९ व्याहृतीभिर्हुत्वा प्रागग्राण्यर्कपर्णान्यौदुम्बरपर्णानि वा निधाय तेषु मध्यमस्यामुत्तरवेद्यां हविर्निवेदयते यमाय सोमं सुनुत इति तिसृभिः १०
दक्षिणस्यामुत्तरवेद्यां श्वभ्यां हविर्निवेदयते यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसा । ताभ्यामेनं परिदेहि राजन् स्वस्ति चास्मा अनमीवं च धेह्योम् इति ११ उत्तरस्यामुत्तरवेद्यां यमदूताभ्यां हविर्निवेदयते उरुणसावसुतृपा बुलुम्बलौ यमस्य दूतौ चरतो जनां अनु । तावस्मभ्यं दृशये सूर्याय पुनर्दत्तामसुमद्येह भद्रमोम् इति १२
योऽस्य कौष्ठ्य इति तिसृभिर्यमगाधाभिः प्रदक्षिणं परीगायते १३
दक्षिणेन करकूपं गत्वा प्राचीनावीतं कृत्वा सव्य जान्वाच्य इषमिषं स्वधा पितृभ्यः इति त्रीनुदकाञ्जलीन् निनयति १४
आयम्य प्राणान् सप्तभिर्व्याहृतीभिस्सप्त पदानि प्राञ्चो गच्छन्ति त्रयोऽभि स्वर्गं लोकाः इति सप्त लोकाः अवरूढा भवन्तीति विज्ञायते १५
दधिक्राव्ण्णो अकारिषम् इति पुनः प्राणानाप्याय्याथैनं प्रत्येत्य नमोनमस्करकूपेभ्यो नमोनमस्करकूपेभ्यः इति करकूपमुपस्थाय यस्मै कामाय यमभिवादयन्ते यमो दाधार इति तिसृतिः सर्वा ता यम आहिता इति नाके सुपर्णम् इति प्रवाहयन्ते १६
हविरुत्तरतः पञ्चभिर्व्याहृतिभिस्स्वयमवभृथं गच्छति उरुं हि राजा इत्येतेनानुवाकेन १७
प्रवक्ताऽवभृथे कलेकलुषमुक्ता अरोगशरीरा भवन्ति इति विज्ञायते १८
यमेन दत्तं त्रित एनम् इति चतसृभिरादित्यमुपतिष्ठते १९
उद्वयं तमसस्परि इति प्रतिसरमाबध्नन्ति २०
सर्वसुरभिगन्धमाल्यं च गृहीत्वा हविषा सर्वप्रायश्चित्तं च हुत्वाऽप्सु निमज्जन्तस्तत्र हविश्शेषान् भक्षयन्ते भक्षोऽस्यमृतभक्षः । तस्य ते मृत्युपीतस्य मृतवतः स्वगाकृतस्य मधुमत उपहूतस्योपहूतो भक्षयामि इति २१
शेषं निनयति पुत्राय प्रियाय प्रियवादिने पुत्रभार्यायै पुत्रस्य भवति २२
यमो यष्टारमितः प्रयातमङ्के समाधाय पितेव पुत्रम् । सुहृच्च गच्छेत न चास्य भिन्नं पन्थानमस्यैव सहैव गच्छेत् २३
इति ह स्माह बोधायनः २४

इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने एकविंशोऽध्यायः