अथ प्रथमप्रश्ने विंशोऽध्यायः
अथातो गजशान्तिं व्याख्यास्यामः शुक्लपक्षेऽष्टम्यामेकादश्यां चतुर्दश्यां श्रोणायां वा ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्यृद्धिम् इति वाचयित्वा पुरस्तात्तिलतण्डुलान्निरुप्य सावित्र्या अप अनीय सावित्र्या पूर्णकुम्भौ नवेन वाससा वेष्टयित्वा फलेनापि धाय पश्चादुक्तं चरुं निधाय पञ्चदूर्वास्तम्बे प्रतिष्ठापयति १
अथ दर्भमालाभिर्गजशालामलङ्कृत्य हस्ती हुतस्य गन्धमाजिघ्रति २
आश्वत्थं मेक्षणमिध्माबर्हिः करोति ३
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा घृतेनाथ पक्वं गजसूक्तेन जुहुयात् आ तू न इन्द्र क्षुमन्तम् इति ४
अथाज्याहुतीरुपजुहोति नमस्ते रुद्र मन्यवे इत्येतैः पञ्चभिरष्टसहस्रं जुहुयात् ५
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ६
अग्रेणाग्निं दूर्वास्तम्बेषु हुतशेषं निदधाति भूतेभ्यस्स्वाहा इति ७
अथ स्थालीपाकशेषं पञ्चदूर्वास्तम्बं चायुष्यसूक्तेन प्राशयित्वा प्रणीताजलेन प्रोक्षति आषो हिष्ठा इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा स्वस्थानं नागजातिं नयति हस्ती दीर्घायुर्भवतीत्याह भगवान् बोधायनः ८
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने विंशोऽध्यायः