१९

अथ प्रथमप्रश्ने एकोनविंशोऽध्यायः

अथातोऽश्वशान्तिं व्याख्यास्यामः अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति तदश्विनावश्वयुजोपयाताम् इति पुरोनुवाक्यामनूच्य यौ देवानां भिषजौ इति याज्यया जुहोति १
अथाज्याहुतीरुपजुहोति अश्विभ्यां स्वाहाऽश्वयुग्भ्यां स्वाहा श्रोत्राय स्वाहा श्रुत्यै स्वाहा इति २
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ३ अथाग्रेणाग्निं अश्वत्थपर्णेषु हुतशेष निदधाति यो अश्वत्थश्शमीगर्भ आरुरोह त्वे सचा । तं ते हरामि ब्रह्मगा यज्ञियैः केतुभिस्सह इति ४ स्थालीसङ्क्षालनमाज्यशेषमुदकशेषं च पात्र्यां समानीयाश्वत्थशाखया प्रोक्षन् त्रिः प्रदक्षिणमश्वान् पर्येते यो वा अश्वस्य मेध्यस्य लोमनी वेद इत्येतेनानुवाकेने ते ह स्माह भगवान् बोधायनः ५

इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने एकोनविंशोऽध्यायः