१८

अथ प्रथमप्रश्ने अष्टादशोऽध्यायः

अथातो गृहकर्मणां गृहवृद्धिमिच्छन् मासि मासि ऋतावृतौ संवत्सरे संवत्सरे वापूर्यमाणपक्षे पुण्ये नक्षत्रे गृहशान्तिमारभेत १
अपामार्गपलाशसर्षपोदुम्बरसदाभद्रामृततृणमिन्द्रवल्ल्या बध्वा गृहं सम्मार्ष्टि मा नो महान्तं मा नस्तोके इति द्वाभ्याम् २ पञ्चगव्यैर्दर्भमुष्टिना च सम्प्रोक्षति यत इन्द्र भयामहे स्वस्तिदा इति द्वाभ्याम् ३
कृणुष्व पाजः इत्येतेनानुवाकेन सिद्धार्थान् सम्प्रकीर्य वास्तुमध्येऽथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति वास्तोष्पते वास्तोष्पते इति द्वाभ्याम् ४ अथाज्याहुतीरुपजुहोति वास्तोष्पते ध्रुवा स्थूणां इति षड्भिरनुच्छन्दसम् ५
सावित्र्या सहस्रं जुहुयात् ६
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ७ ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्यृद्धिम् इति वाचयित्वैवं प्रयुञ्जानो महान्तं पोषं पुष्यति वहवः पुत्रा भवन्ति न च बालाः प्रमीयन्ते न प्रहव्याधयो गृह्णन्ति न दंष्ट्रिणो धातयेयुर्न तस्करसर्पराक्षसपिशाचा बाधन्ते ८
यदि गावः प्रतप्येरन् गवां मध्ये आहुतिसहस्रं जुहुयात् गवां शान्तिरित्याचक्षते ९
द्विपदां चतुष्पदां चैतदेव व्याख्यातं वासो दक्षिणे ति ह स्माह भगवान् बोधायनः १०

इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने अष्टादशोऽध्यायः