१७

अथ प्रथमप्रश्ने सप्तदशोऽध्यायः

अथ नवग्रहपूजाविधिः त्रैलोक्यदीपकं देवं गुणरूपं त्रयीमयम् स्थापयामि महाभक्त्या भास्करं ग्रहनायकम् १
मध्ये वर्तुलाकारमण्डले प्रत्यङ्मुखं कलिङ्गदेशजं काश्यपगोत्रजं विश्वामित्रार्षं विशाखानक्षत्रजं त्रिष्टुप्छन्दसं कपिलाग्निकं पद्मासनं पद्मवर्णं द्विभुजं रक्तवस्त्रं पृक्तगन्धं माणिक्यरत्नाभरणभूषितं किरीटिनं रक्तच्छत्रध्वजपताकिनं छन्दोमयहरितसप्ताश्वं सप्तरज्जुकमेकचक्रं रक्तं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टमधिदेवताऽग्निं प्रत्यधिदेवतारुद्रम् २
वन्दे रविं द्युमणिमम्बुरुहे निषण्णं दोर्भ्यां दधानमरुणाम्बुरुहे ग्रहेन्द्रम् माणिक्यभूषमरुणांशुकगन्धमाल्यैः भ्राजन्तमर्कममितद्युतिमब्जमित्रम् ३ कपिले सर्वदेवानां पूजनीया सुरोहिणी सर्वदेवमयी यस्मादतश्शान्तिं प्रयच्छ मे ४
जपाकुसुमसङ्काशं कायपेयं महाद्युतिम् तमोहरं कल्मषघ्न भास्करं प्रणमाम्यहम् ५
दीवाकरं दीप्तसहस्ररश्मिं तेजोमयं जगतः कर्मसाक्षिम् मित्रं भानुं सूर्यमादिं ग्रहाणां रविं सदा शरणमहं प्रपद्ये ६
रक्तस्रगम्बरालेपं गदाशक्त्यसिशूलिनम् चतुर्भुजं मेषगमं भारद्वाजं धरासुतम् ७
रक्तकाञ्चनसङ्काशं रक्तकिञ्जल्कसन्निभम् स्थापयामि महारौद्रं रुद्रमूर्तिं महाबलम् ८
सूर्यस्य दक्षिणादिग्भागे त्रिकोणाकारमण्डले दक्षिणाभिमुखमवन्तीदेशजं भारद्वाजगोत्रजं जामदग्न्यार्षं गायत्रीछन्दसं धूमकेत्वग्निकं खङ्गशक्तिशूलगदाधरं चतुर्भुजं रक्ताम्बरधरं रक्तविद्रुमरत्नाभरणभूषितं किरीटिनं रक्तच्छत्रध्वजपताकिन रक्तमेषवाहनमग्निजरक्ताष्टाश्वं काञ्चनं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टमधिदेवताभूमिं प्रत्यधिदेवताक्षेत्रपालम् ९
रक्तस्रग्गन्धवासा करविधृतगदाशक्तिखड्गत्रिशूलः भारद्वाजस्त्रिणेत्रो वसुमतितनयो लोहिताङ्श्शुभाङ्गः मेषव्याघ्रध्वजोऽर्कद्युतिसदृशमहाकुण्डलाश्लिष्टकर्णः पायाद्भास्वत्किरीटाङ्गृदवलयलसद्विद्रुमालङ्कतो नः १०
धर्मस्त्वं वृषरूपेण जगदानन्दकारक अष्टमूर्तेरधिष्ठान अतश्शान्तिं प्रयच्छ मे ११ धारणीगर्भसम्भूतं विद्युत्काञ्चनसन्निभम् कुमारं शक्तिहस्तं च लोहिताङ्गं नमाम्यहम् १२
महेश्वरस्याननस्वेदबिन्दोर्भूमौ जातं रक्तमाल्याम्बराढ्यम् सुदीधितिं लोहिताङ्गं कुमारमङ्गारकं सदा शरणमहं प्रपद्ये १३
शुक्रं शुक्लतनुं श्वेतवस्त्राढ्यं दैत्यमन्त्रिणम् भार्गवं दण्डवरदकमण्डल्वक्षसूत्रिणम् १४ कुन्दपुष्पसमानाभं मुक्ताफलसमप्रभम् स्थापयामि महाशान्तं भृगुं दैत्यगुरुं प्रभुम् १५
सूर्यस्य पूर्वदिग्भागे पञ्चकोणाकारमण्डले प्राङ्मुखं भोजकटकदेशजं भार्गवगोत्रजं शौनकार्षं तिष्यनक्षत्रजं त्रिष्टुप्छन्दसं हाटकाग्निकं श्वेतमक्षसूत्रदण्डकमण्डलुवरदचतुर्भुजं श्वेताम्बरगन्धमाल्यवज्ररत्नाभरणभूषितं किरीटिनं श्वेतच्छत्रध्वजपताकिनं श्वेताश्ववाहनं भूसम्भवश्वेतदशाश्वं श्वेतं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टं अधिदेवतेन्द्राणी प्रत्यधि देवतेन्द्रम् १६
वन्दे विराजितसितांशुकगन्धमाल्यं अच्छाश्वगं तनुविराजितवज्ररत्नम् दोर्भिस्सदण्डवरकुण्डिकमक्षसूत्रं बिभ्राणमासुरगुरुं भृगुपुत्रमीड्यम् १७ विष्णुस्त्वमश्वरूपेण यस्मादमृतसम्भवः विष्णोरर्कस्य वाहः स्यादतश्शान्तिं प्रयच्छ वे १८
हिमकुन्दतुषाराभं दैत्यानां परमं गुरुम् सर्वशस्त्रप्रदातारं भार्गवं प्रणमाम्यहम् १९
वर्षप्लवं चिन्तितार्थानुकूलं नयप्रधानं विनयोपपन्नम् तं भार्गवं योगविशुद्धसत्त्वं शुक्रं सदा शरणमहं प्रपद्ये २०
श्वेतवस्त्रधरं श्वेतदशाश्वरथवाहनम् द्विभुजं साभयगदमात्रेयं सामृतं विधुम् २१
शान्तं नक्षत्रनाथं च रोहिणीवल्लभं प्रभुम् कुन्दपुष्पोज्ज्वलाकारं स्थापयामि निशाकरम् २२ सूर्यस्याग्नेयदिग्भागे चतुरस्राकारमण्डले प्रस्यङ्मुख यमुनादेशजमात्रेयगोत्रजमात्रेयार्षं कृत्तिकानक्षत्रजं गायत्रीछन्दसं पिङ्गलाग्निकं अभयगदाधरं द्विभुजं श्वेताम्बरगन्धमाल्यमुक्ताभरणभूषितं किरीटिनं श्वेतच्छत्रध्वजपताविनं वारिसम्भूतदशाश्वं त्रिचक्रं श्वेतरथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रह मण्डले प्रविष्टमधिदेवतापं प्रत्यधिदेवतागौरीम् २३ श्वेताम्बरस्रगनुलेपनमत्रिनेत्रजातं दशाश्वरथवाहनमोषधीशम् दोर्भ्यां धृताभयगदं भपतिं सुधांशुं श्रीमत्सुमौक्तिकधरं प्रणमाभि चन्द्रम् २४
पुण्यस्त्वं शङ्ख पुण्यानां मङ्गलानां च मङ्गलम् विष्णुना विधृतो नित्यमतश्शान्तिं प्रयच्छ मे २५
दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम् नमामि शशिनं भक्त्या शम्भोर्मकुटभूषणम् २६
यः कालहेतोः क्षयवृद्धिमेति यं देवताः पितरो वा पिबन्ति तं वै वरेण्यं ब्रह्मेन्द्रवन्द्यं सोमं सदा शरणमहं प्रपद्ये २७
पीतस्रग्गन्धवस्त्राढ्यं स्वर्णाभं च चतुर्भुजम् शक्तिचर्मासिगदिनमात्रेयं सिंहगं बुधम् २८
चाम्पेयपुष्पसङ्काशं विशुद्धकनकप्रभम् स्थापयामि महासौम्यं बुधं सोमात्मजं प्रभुम् २९ सूर्यस्येशानदिग्भागे बाणाकारमण्डले प्राङ्मुखं मगधदेशजमात्रेयगोत्रजं भारद्वाजार्षां श्रविष्ठानक्षत्रजं त्रिष्टुप्छन्दसं जाठराग्निकं शक्तिखङ्गचर्मगदाधरं चतुर्भुजं पीताम्बरगन्धमाल्यमरकतरत्नाभरणभूषितं किरीटिनं पीतच्छत्रध्वजपताकिनं पीतसिंहवाहनं वाय्वग्निजपीताष्टादवं पीतं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टं अधिदेवताविष्णु प्रत्यधिदेवताविष्णुम् ३०
वन्दे बुधं मरकतोज्ज्वलदेहकान्तिं पीताम्बरस्रगनुलेपनभूषिताङ्गम् शक्तिं च दोर्भिरसिचर्मगदा दधानं सिंहध्वजं शशिसुतं बुधमत्रिवंशम् ३१ हिरण्यगर्भगर्भस्थं हेम बीजं विभावसोः अनन्तपुण्यफलदमतश्शान्तिं प्रयच्छ मे ३२
प्रियङ्गुगुलिकाभासं रूपेणाप्रतिभं बुधम् सौम्यं सौम्यगुणोपेतं नमासि शशिनस्सुतम् ३३ विशुद्धबुद्धिं श्रुतिकालबोधं सद्व्याहरं सोमवंशप्रदीपम् सुदीधितिं छान्दसं विश्वरूपं बुधं सदा शरणमहं प्रपद्ये ३४
आङ्गीरसं देवगुरुं पीतस्रग्गन्धवाससम् दण्डिनं वरदं पीतं साक्षसूत्रकमण्डलुम् ३५
कुन्दपुष्पसमानाभं तप्तकाञ्चनसन्निभम् स्थापयामि महाभक्त्या प्रसन्नवदनं गुरुम् ३६
सूर्यस्योत्तरदिग्भागे दीर्घचतुरश्रमण्डले उदङ्मुखं सिन्धुदेशजमाङ्गिरसगोत्रजं वसिष्ठार्षमुत्तराफल्गुनीनक्षत्रजं त्रिष्टुप्छन्दसं शिख्यग्निकं पीतमक्षसूत्रदण्डकमण्डलुवरदचतुर्भुजं पीताम्बरगन्धमाल्यपुष्यरागरत्नाभरणभूषितं किरीटिनं पीतच्छत्रध्वजपताकिनं विश्वरूपाख्यपाण्डुराष्टाश्वं काञ्चनं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टं अधिदेवतेन्द्रं प्रत्यधिदेवता ब्रह्माणम् ३७ पीताम्बरं तनुलसद्धृतपुष्यरागं केयूरहारमणिकुण्डलमण्डिताङ्गं दण्डं वराक्षगुणकुण्डियुतं दधानं आङ्गीरसं सुरगुरुं हयगं नमामि ३८ पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभम् प्रदानादस्य मे विष्णुः प्रीतो भवतु सर्वदा ३९
देवतानामृषीणां च गुरुं काञ्चनसन्निभम् सुवन्द्यं त्रिषु लोकेषु प्रणमामि बृहस्पतिम् ४०
बुद्ध्या समो यस्य न कश्चिदन्यो मतिं देवा उपजीवन्ति यस्य प्रजापतेरात्मजं धर्मनित्यं बृहस्पतिं सदा शरणमहं प्रपद्ये ४१ इन्द्रनीलनिभं मन्दं काश्यपिं चित्रभूषणम् चापबाणधरं चर्मशूलिनं गृध्रवाहनम् ४२
इन्द्रनीलसमानाभं नीलोत्पलसमप्रभम् स्थापयामि महारौद्रं सूर्यपुत्रं शनैश्चरम् ४३
सूर्यस्य पश्चिमदिग्भागे धनुराकारमण्डले उदङ्मुखं काश्यपगोत्रजं भृग्वार्षेयं रेवतीनक्षत्रजं सौराष्ट्रदेशजं गायत्रीछन्दसं महातेजोग्निकं नीलं चर्मबाणधनुश्शूलचतुर्भुजं नीलाम्बरगन्धमाल्यनीलरत्नाभरणभूषितं किरीटिनं नीलच्छत्रध्वजपताकिनं नीलगृध्रवाहनमाकाशजजम्बालाष्टाश्वं नीलं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टं अधिदेवताप्रजापतिं प्रत्यधिदेवतायमम् ४४
दोर्भिर्धनुर्विशिखचर्मधरं त्रिशूलं भास्वत्किरीटमकुटोज्जवलितेन्द्रनीलम् नीलातपत्रकुसुमांशुकगन्धभूषं गृध्रस्थितं रविसुतं प्रणतोऽस्मि मन्दम् ४५
गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश यस्मात्तस्माच्छिवं मे स्यादतश्शान्तिं प्रयच्छ मे ४६
नीलाञ्जनचयाकारं रविसूनु नपुंसकम् छायागर्भसमुद्भूतं वन्दे भक्त्या शनैश्चरम् ४७ शनैश्चरः प्रजापतिं योऽधि यस्य शनैर्भोगो गमनं चेष्टितं च सूर्यान्भजं क्रोधनसुप्रसन्नं शनैश्चरं सदा शरणमहं प्रपद्ये ४८
सैहिकेयं करालास्यं कौण्डिनेयं तमोमयम् खड्गचर्मधरं भीमं नीलसिंहासने स्थितम् ४९
नीलाञ्जनसमानाभं नीलमेघसमद्युतिम् स्थापयामि महावक्त्रं राहुं चन्द्रार्कवैरिणम् ५०
सूर्यस्य नैरृत्यदिग्भागे शूर्पाकारमण्डले दक्षिणाभिमुखं बर्बरदेशजं पैठीनसिगोत्रजमङ्गिरसाषमश्विनीनक्षत्रजं गायत्रीछन्दसं हुताशनाग्निकं कृष्णं खड्गचर्मधरं द्विभुजं कृष्णाम्बरगन्धमाल्यगोमेदरत्नाभरणभूषितं किरीटिनं कृष्णच्छत्रध्वजपताकिनं करालवदनमुरगालङ्कारं कृष्णसिंहासने स्थितमष्टाश्वं रथमारुह्य दिव्यं मेरुमप्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टं अधिदेवतासर्पं प्रत्यादिदेवतानिरृतिम् ५१
राहुं कराग्रपरिमण्डितचर्मखड्गं भीमं तमोमयतनुं तममिन्द्विनारिम् कौण्डिन्यसूनुमसितांशुकगन्धभूषं गोमेदभूषिततनुं हरिगं नमामि ५२
यस्मात्त्वं छाग यज्ञानामङ्गत्वेन व्यवस्थितः यानं विभावसोनित्यमतश्शान्तिं प्रयच्छ मे ५३
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् सिंहकागर्भसम्भूतं तं राहुं प्रणमाम्यहम् ५४
यो विष्णुनैवामृतं पीयमानं छित्वा शिरो ग्रहभावे नियुक्तः योऽभ्यर्कचन्द्रौ ग्रसति पर्वकाले राहुं सदा शरणमहं प्रपद्ये ५५
धूम्रान् द्विबाहुगदिनो विकृतास्यान् शतात्मकान् गृध्रासनगतान् केतून् वरदान् ब्रह्मणस्सुतान् ५६
नीलमेघसमानाभं चित्रवर्णं महाबलम् स्थापयामि महारौद्रं केतुं सर्वफलप्रदम् ५७
सूर्यस्य वायव्यदिग्भागे ध्वजाकारमण्डले दक्षिणाभिमुखमन्तर्वेदिदेशजं जैमिनीसूत्रजं रौद्राग्निकं धूम्रं वरदगदाधरं द्विभुजं चित्राम्बरगन्धमाल्यवैडूर्यरत्नाभरणभूषितं किरीटिनं धूम्रच्छत्रध्वजपताकिनं चित्रगृध्रवाहनं धूमारुणाष्टाश्वं धूम्रं रथमारुह्य दिव्यं मेरुमप्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टं अधिदेवताब्रह्माणं प्रत्यधिदेवताचित्रगुप्तम् ५८
गृध्रस्थितान् जलजयोनिसमानवक्त्रान् धूम्रान् वराभयकरान् सुभुजान् कुमारान् वैदूयभूषिततनून् वरजैमिनीयान् केतून् भयानकमुखान् द्विभुजान्नमामि ५९
महासत्त्व महाकाय क्षीरोदार्णवसम्भव सर्वसङ्ग्रामविजय जयं गज कुरुष्व मे ६०
करालधूम्रसङ्काशान् तारकाग्रहमस्तकान् रुद्रान् रौद्रात्मकान् घोरान् तान् केतून् प्रणमाम्यहम् ६१
ये ब्रह्मपुत्रा ब्रह्मसमानवक्त्राः ब्रह्मोद्भवाः ब्रह्मसमाः कुमाराः ब्रह्मोत्तमा वरदा जैमिनीय्याः केतून् सदा शरणमहं प्रपद्ये ६२

इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने सप्तदशोऽध्यायः