अथ प्रथमप्रश्ने षोडशोऽध्यायः
अथातो ग्रहातिथ्यवलिकर्मोपहारान् व्याख्यास्यामः अश्रद्दधानमशुचिमजपं त्यक्तमङ्गलम् ग्रहा नयन्ति सुव्यक्तं पुरुषं यमसादनम् १
ग्रहाणामुग्रचेष्टानां नक्षत्रपथचारिणाम् उपचारान् प्रवक्ष्यामि शान्त्यर्थं तु यथाविधि २
मासिमास्यृतावृतावयने चन्द्रग्रहे सूर्यग्रहे विषुवे शुभाशुभे जन्मनक्षत्रे वा तद्ग्रहाणामातिथ्यं संवत्सरादपि प्रयुञ्जानस्सर्वान् कामानवाप्नोतीति ३
उक्तमेकाग्निविधानम् ४
एको वा विषमस्थस्स्यात्सर्व एवार्चनीया भवन्ति ५
भास्कराङ्गारकौ रक्तौ श्वेतौ शुक्रनिशाकरौ सोमपुत्रो गुरुश्चैव तावुभौ पीतकौ स्मृतौ ६
कृष्णं शनैश्चरं विद्याद्राहुं केतुं तथैव च ग्रहवर्णानि पुष्पाणि प्राज्ञस्तत्रोपकल्पयेत् ७
बलींश्चैवोपहारांश्च गन्धमाल्यं तथैव च यथाक्रमेणोपहरेत्सर्वेषामानुपूर्वशः इति ८
अर्कसमिधमादित्याय खादिरमङ्गारकायौदुम्बरं शुक्राय पालाशं सोमायापामार्गं बुधायाश्वत्थं बृहस्पतये शमीमयं शनैश्चराय राहवे दूर्वाः केतवे कुशा इति ९
सर्वेषामलाभे पालाशीर्वा । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वाऽथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वा हवींषि निर्वपति १०
अथोपोत्थायाग्रेणाग्निं तण्डुलैः स्थण्डिलं कृत्वा ग्रहदेवता आवाहयति ११
मध्ये तु भास्करं विद्याल्लोहितं दक्षिणेन तु पूर्वे तु भार्गवं विद्यात्पूर्वदक्षिणतश्शशी १२
पूर्वोत्तरे बुधं विद्यादुत्तरे तु गुरुं तथा पश्चिमे तु शनिं विद्याद्राहुं दक्षिणपश्चिमे १३
पश्चिमोत्तरतः केतुः ग्रहस्थानं विधीयते दक्षिणोत्तरभागे तु साधिप्रत्यधिदेवताः १४
वृत्तमादित्याय त्रिकोणमङ्गारकाय पञ्चकोणं शुक्राय चतुरश्रं सोमाय बाणं बुधाय दीर्घचतुरश्रं बृहस्पतये धनुश्शनैश्चराय राहवे शूर्पं केतवे ध्वजमिति १५
अर्कश्शुक्रो बुधः पूर्वो गुरुरुत्तरतोमुखः पश्चिमे तु शनिश्चन्द्रः शेषा दक्षिणतोमुखाः १६
यवा आढक्यस्तण्डुलाश्श्यामाका मुद्गमेव च चणकास्तिलमाषाश्च कुलुत्थाश्च क्रमात् क्षिपेत् १७
अग्नीश्वरौ भास्करस्य भूक्षेत्रेशौ कुजस्य हि इन्द्राणीन्द्रौ सितस्याथ ह्यापो गौरी निशापतेः १८
विष्णुर्विष्णुर्बुधस्येन्द्रमरुत्वान् ब्रह्म वै गुरोः शनेः प्रजापतियमौ राहोस्सर्पस्तु निरृतिः १९
केतोः ब्रह्मा च चित्रश्च स्वस्वमन्त्रैस्स्वनामभिः लोकपालान् दुर्गविघ्नक्षेत्रवास्तुत्रियम्बकान् २०
अभयङ्करमृत्यू च ह्यग्निं वैश्वानरं क्रमात् आवाहयेद्भ्य हृतिभिर्यजेद्व्यष्टोपचारकैः २१
परिधानप्रभृत्याऽग्निमुखात्कृत्वा आ सत्येन इत्यादित्याय अग्निर्मूर्धा इत्यङ्गारकाय प्रवश्शुक्राय इति शुक्राय आप्यायस्व इति सोमाय उद्बुध्यस्व इति बुधाय बृहस्पते अति यदर्यो अर्हात् इति बृहस्पतये शं नो देवीरभिष्टये इति शनैश्चराय कया नश्चित्र आ भुवत् इति राहवे केतुं कृण्वन् इति केतवे २२
पुरोनुवाक्यामनूच्य याज्यया जुहोति सदेवत्वाय इति ब्राह्मणम् २३
यत्रैकाऽम्नाता स्यात्तां द्विरभ्यवर्तयेत् तत्सवितुर्वरेण्यम् इत्यनुद्रुत्याम्नातया जुहोति वा २४
नवानां ग्रहाणां पक्वं हृत्वा घृतान्वक्तानां समिधामष्टसहस्रमष्टशतमष्टाविंशतिं वा जुहुयात्प्रत्यृचं हविषो जुहुयात् प्रत्यृचमाज्यस्य जुहुयात्प्रत्यृचम् २५
गुलोदनमादित्यायि हविष्यमन्नमङ्गारकाय घृतोदनं शुक्राय घृतपायसं सोमाय क्षीरोदनं बुधाय दध्योदनं बृहस्पतये तिलपिष्टमिश्रमाषोदनं शनैश्चराय राहोः मांसोदनं केतोः चित्रोदनमिति २६
सर्वेषामलाभे हविष्यं वा २७
यदाऽष्टासहस्रं तदाऽधिप्रत्यधिदेवतानामष्टाविंशतिं यदाऽष्टशतं तदाऽष्टावष्टौ यदा विंशतिं तदा तिस्रस्तिस्र आहुतीर्जुहुयादेवमेव लोकपालादीनाम् १८
अग्निं दूतं येषामीशे इत्यादित्याय । स्योना पृथिवि क्षेत्रस्य पते इत्यङ्गारकाय । इन्द्राणीं इन्द्रं वो विश्वतः इति शुक्राय । अप्सु मे सोमो अब्रवीत् गौरी मिमाय इति सोमाय । विष्णोर्नुकं विष्णो रगटम् इति बुधाय । इन्द्र मरुत्वः ब्रह्म जज्ञानम् इति बृहस्पतये । प्रजापते इमं यम प्रस्तरम् इति शनैश्चराय । आयङ्गौः यत्ते देवी इति राहवे । ब्रह्मा देवानां सवित्र चित्रम् इति केतवे २९
त्रतारमिन्द्रम् अग्निर्दां द्रविणम् यमो दाधर पृथिवीम् असुन्वन्तम् सधमादो द्युम्निनीः आनो नियुद्भिः सोमो धेनुम् सहस्राणि सहस्रधा इति लोकपालानाम् ३०
जातवेदसे गणानां त्वा क्षेत्रस्य पतिना वयम् वास्तोष्पते त्र्यम्बकं यजामहे यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः ये ते सहस्रमयुते पाशाः मूर्धानं दिवो अरतिं पृथिव्याः इति दुर्गादीनाम् ३१
एवमेव हुत्वाज्यमिश्रतिलव्रीहिभिर्व्याहृतिभिर्हुत्वा सर्वस्मात्सकृत्सकृदवदाय द्विरभिघार्य स्विष्टकृतं अर्यमणम् इति पुरोनुवाक्यामनूच्य सोमं राजानम् इति याज्यया जुहोति ३२
मेक्षणमभ्याधाय जयप्रभृति सिद्धम् ३३
मूर्धानं दिवो अरतिम् इति पूर्णां हुत्वाऽग्रेणाग्निं ग्रहानभ्यर्चयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जन इत्येतेनानुवाकेन मार्जयित्वा स्वस्वनामभिस्तर्पयित्वा स्वेन स्वेन मन्त्रेण गन्धपुष्पधूपदीपैरभ्यर्च्य वलिमुपहृत्य लाजापूपपृथुकाद्यपहारांश्च दत्त्वा समस्कृत्य प्रवाह्य जघनेनाग्निमुपविश्याद्भिर्मार्जयति आपो हिष्ठा मयोभवः इति तिसृभिः देवस्य त्वा इति तिसृभिः शंयुवाकेन च ३४
अथ दक्षिणां ददाति कपिलां धेनुमादित्याय रक्तमनड्वाहमङ्गारकाय रजतं शुक्राय शङ्खं सोमाय काञ्चनं बुधाय वासो बृहस्पतये कृष्णां गां शनैश्चराय राहवे छागं केतवे कुञ्जामिति ३५
सर्वेषमलाभे हिरण्यं वा ३६
येन वा तुष्येदाचार्यः ३७
अथाप्युदाहरन्ति यथा समुत्थितं घोरं यन्त्रेण प्रतिहन्यते एवं समुत्थितं घोरं शीघ्रं शान्तिं नयेत्सदा ३८
यथा शस्त्रप्रहरणात् कवचं भवति निवारणम् एवं दैवोपघातानां शान्तिर्भवति वारणम् ३९
अहिंसकस्य दान्तस्य धर्मार्जितधनस्य च नित्यं च नियमस्थस्य सदा सानुग्रहा ग्रहाः ४०
ग्रहा गावो नरेन्द्राश्च ब्राह्मणाश्च विशेषतः पूजिताः पूजयन्त्येते निर्दहन्त्यवमानिताः ४१
ईश्वरं भास्करं विद्यात् स्कन्धमङ्गारकं तथा शुक्रं शचीपतिं विद्यादुमां चैव निशाकरम् ४२
बुधं नारायणं विद्याद्ब्रह्माणं च बृहस्पतिम् यमं शनैश्वरं विद्याद्राहुं कालं तथैव च ४३
केतुमग्निमयं विद्याद्देव देवा यथा ग्रहाः देवता ग्रहरूपेण दर्शयन्ति शुभाशुभम् दर्शयन्ति शुभाशुभमित्याह भगवान् बोधायनः ४४
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने षोडशोऽध्यायः