१५

अथ प्रथमप्रश्ने पञ्चदशोऽध्यायः

अथातः प्रतिसरबन्धं व्याख्यास्यामः १
यस्मिन् दिने नान्दीमुखं कुर्यात्तस्यां रात्र्यां प्रदोषान्ते प्रतिसरमारभेत २
शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य युग्मान् ब्राह्मणान् सुप्रक्षालितपाणिपादानप आचमय्य प्रतिदिशमासनेषूपवेश्य पश्चात्प्राङ्मुख आचार्य उपविशति ३
तस्य दक्षिणं बाहुमन्वितरः ४ अथ हस्तमात्रं सैकतं स्थण्डिलं कृत्वोल्लिख्याद्भिरभ्युक्ष्य स्थण्डिलस्य मध्ये प्रागग्रान् दर्भान् संस्तीर्य तेषूपरि कुम्भं निधाय व्याहृतीभिश्शुद्धोदकैः पूरयित्वा दूर्वाक्षतफलैरवकीर्य गन्धपुष्पधूपदीपैरुदकुम्भमभ्यर्च्य दूर्वाभिर्दर्भैः प्रतिच्छाद्योत्तरतः शालितण्डुलस्योपरि प्रतिसरसूत्रं गन्धानुलिप्तं निधाय आचार्यमुखांस्त्रीन् प्राणायामान् धारयित्वा उदकुम्भमन्वारभ्य सावित्रीं जपति तत्सवितुर्वरेण्यम् इत्येतां पच्छोऽर्धर्चशोऽनवानमुक्त्वा वेदादीन् जपति ५
राक्षोघ्नं कृणुष्व पाजः इत्येतमनुवाकं अग्ने यशस्विन् इति चतस्र आप्यं हिरण्यवर्णाश्शुचयः पावकाः इत्येतमनुवाकं पवमानस्सुवर्जनः इत्येतमनुवाकं वरुणसूक्तम् उदुत्तमं वरुण पाशम् इति षडृचं रुद्रसूक्तं परि णो रुद्रस्य हेतिः इति षडृचं ब्रह्मसूक्तं ब्रह्म जज्ञानम् इति षडृचं विष्णुसूक्तं विष्णोर्नुकम् इति षडृचं पञ्च दुर्गाः जातवेदसे इति श्रीसूक्तं हिरण्यवणां हरिणीम् इति पञ्चदशर्चं नमो ब्रह्मण इति परिधानीयां त्रिरन्वाह इति ब्राह्मणम् ६
प्रणवेनोत्थाप्य व्याहृतीभिस्सुरभिमत्याऽब्लिङ्गाभिः प्रोक्ष्य प्रतिसरसूत्रमादाय वासुकिं ध्यात्वा अङ्गुष्ठेनोपकनिष्ठिकाभ्यां त्र्यम्बकेन त्रिरूर्ध्वं भस्मना सम्मृज्य अग्निरायुष्मान् इति पञ्चभिः तस्य दक्षिणहस्तं गृहीत्वा बृहत्साम इति बध्वा स्त्रीणां वामहस्तं भस्मना घृतसूक्तेन यो ब्रह्म ब्रह्मणः इत्यष्टर्चेन रक्षां कुर्यादित्याह भगवान् बोधायनः ७

इति बोधायनीये गृह्यशेषसूत्रे प्रथमप्रश्ने पञ्चदशोऽध्यायः