अथ प्रथमप्रश्ने चतुर्दशोऽध्यायः
अथ वै भवति - श्रद्धा वा आपश्श्रद्धामेवारभ्येति । यज्ञो वा आपो यज्ञमेवारभ्येति । वज्रो वा आपो वज्रमेव भ्रातृव्येभ्यः प्रहृत्य इति । आपो वै रक्षोघ्नी रक्षसामपहत्यै इति । आपो वै देवान प्रियं धाम इति । अमृतं वा अपास्तस्मादद्भिरवतान्तमभिषिञ्चन्ति इति । आपो वै सर्वा देवता देवता एवारभ्य इति आपो वै शान्ताश्शान्ताभिरेवास्यशुचं शमयति इति ब्राह्मणम् १
तस्मात्पवित्रेण शान्युदकं करोति जन्मनक्षत्रे पुण्ये नक्षत्रे विवाहचौलोपनयनसमावर्तनसीमन्ताग्न्याधेयान्यन्यानि मङ्गलकार्याणि ग्रहोपरागे ग्रहोत्पाते वा द्विपात्सु चतुष्पात्सु भयं विन्देताथ शान्तिमारभेत २
युग्मान् ब्राह्मणान् सुप्रक्षालितपाणिपादानप आचमय्य प्रतिदिशमासनेषूपवेश्य गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य दर्भेषु प्राङ्मुख उपविश्य दर्भान् दूर्वाश्च धारयमाणः पवित्रपाणिस्स्थण्डिलं कृत्वा प्रोक्ष्य लक्षणमुल्लिख्याद्भिरभ्युक्ष्य दूर्वाभिर्दर्भैरवकीर्य गन्धोदकेनाभ्युक्ष्य पुष्पैरवकीर्य ब्रह्मपात्रं सूत्रेण परिवेष्ट्य तेषु ब्रह्मपात्रं निदधाति ब्रह्म जज्ञानम् इति ३
अथ तिरः पवित्रमप आनयन् जपति तत्सवितुर्वरेण्यम् इति ४
यवाक्षततण्डुलानावपति भूर्भुवस्सुवरोम् इति ५
अथ पुष्पैर्दूर्वाभिः फलैरवकीर्य दूर्वाभिः दर्भैः प्रतिच्छाद्याभिमृशति शं नो देवीरभिष्टये इति ६
अन्वारब्धेषु जपति तत्सवितुर्वरेण्यम् इत्येतां पच्छोऽर्धर्चशोऽनवानमुक्त्वा वेदादीन् जपति ७
राक्षोघ्नं कृणुष्व पाजः प्रसितिम् इत्येवमनुवाकं मदे चिदस्य इत्यर्धर्चमवोद्धृत्य इन्दुं वो विश्वतस्परि हवामहे जनेभ्यः इत्येतमनुवाकं यत इन्द्रभयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्यां महां इन्द्रः सजोषा इन्द्र इति द्वाभ्यां ये देवा पुरस्पदः इति पञ्चभिः पर्यायैः अग्नये रक्षोघ्ने इति पञ्च अङ्गिरायुष्मान् इति पञ्च या वामिन्द्रावरुणौ इति चतस्रः यो वामिन्द्रावरुणौ इत्यष्टौ अग्ने यशस्विन् इति चतस्रः राष्ट्र भृतं ऋताषाडृतघामा इत्येतमनुवाकं नमो अस्तु सर्पेभ्यः इति तिसृभिरनुचच्छन्दसं पञ्च चोडा अयं पुरो हरिकेशः इति पञ्चभिः पर्यायैरप्रतिरथं अशुशिशशानः इत्येतमनुवाकं शं च मे मयश्च मे इत्येतमनुवाकं विहव्यं ममाग्ने वर्चो विहवेष्वस्तु इत्येतमनुवाकं सृगारं अग्नेर्मन्वे इत्येतमनुवाकं सर्पाहुतीः समीची नामासि प्राची दिक् षड्भिः पर्यायैः गन्धर्वाहुतीः हेतयो नाम स्थ तेषां वः पुरोगृहाः इति षड्भिः अज्यानीः शतायुधाय इति पञ्च भूतं भव्यं भविष्यत् इत्येतमनुवाकं अथर्वशिरसं इन्द्रो दधीचो अस्थभिः इत्येतमनुवाकं प्रत्याङ्गिरसं चक्षुषो हैते मनसो हैते इति प्रतिपद्य भ्रातृव्य पादयामसि इत्यन्तं प्राणो रक्षति विश्वमेजत् इत्येतमनुवाकं सिंहे व्वाघ्र उत या पृदाकौ इत्येतमनुवाकं अहमस्मि इत्येतमनुवाकं ता सूर्याचन्द्रमसा इत्येतमनुवाकं अग्निर्नः पातु ऋध्या स्म नवोनवः इत्येतैस्त्रिभिरनुवाकैरुत्तमैरुपहोमैश्च सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिर्व्याहृतीभिः तश्छंयोरावृणीमहे इत्येतमनुवाकं नमो ब्रह्मण इति परिधानीयां त्रिरन्वाह इति ब्राह्मणम् ८
प्रणवेनोस्थाप्य व्याहृतीभिः प्रोक्षति ९
अथ दक्षिणां ददाति पुरस्तादुपविष्टाय हिरण्यं ददाति दक्षिणतो रजतं पश्चात्कांस्यमुत्तरतो वासो ददाति १०
अथ ग्रहगृहीतानां ज्वरगृहीतानां भूतोपसृष्टानां मित्र बन्धुसुहृज्ज्ञातिसखिसम्बन्धिबान्धवानां राज्ञां च राजपुरोहितानां च बालवृद्धान्तर्वात्निपापरोगिदीर्घ रोगिकृशातुरान् प्रोक्षति ११
हस्त्यश्वोष्ट्रगोमहिष्यजाविकभृत्यांश्च धनधान्यानि च प्रोक्षति १२
एवमेकरात्रं त्रिरात्रं पञ्चरात्रं सप्तरात्रं नवरात्रमित्यपपुनर्मृत्युं जयतीत्याह भगवान् बोधायनः १३
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने चतुर्दशोऽध्यायः