१३

अथ प्रथमप्रश्ने त्रयोदशोऽध्यायः

अथ नक्षत्रहोमं व्याख्यास्यामः संवत्सरे संवत्सरे षट्सु षट्सु मासेषुचतुर्षु चतुर्षु ऋतावृतौ मासि मासि वा कुमारस्य जन्मनक्षत्रे क्रियेत १
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वाऽथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति अग्निर्मूर्धा भुवः इति द्वाभ्याम् २ अथ नक्षत्रदेवताभ्यो जुहोति यथानक्षत्रम् ३
अनु नोऽद्यानुमतिरन्विदनुमते इति तृतीयम् ४
अथाज्याहुतीरुपजुहोति नक्षत्रदेवताभ्यो यथानक्षत्रम् ५ चन्द्रमसे स्वाहा । प्रतीदृश्यायै स्वाहा । अहोरात्रेभ्यस्स्वाहा अर्धमासेभ्यस्स्वाहा । मासेभ्यस्स्वाहा इति मासि मासि ६
ऋतुभ्यस्स्वाहा इत्यृतावृतौ ७
संवत्सराय स्वाहा इति संवत्सरे ८
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ९
अन्नशेषं सगणः प्राश्नाति १०
अथ संवत्सरे पर्यवेते प्रसिद्धमाग्निमुखात्कृत्वा पक्वाज्जुहोत्याग्नेयं प्रधानदेवत्यम् ११
यथानक्षत्रं द्वितीयम् १२
अनु नोऽद्यानुमतिरन्विदनुमतेत्वम् इति तृतीयम् १३
नवो नवो भवति जायमानः यमादित्या अंशुमाप्याययन्ति इत्यान्तादनुवाकस्य १४
अथ पूर्ववदाज्याहुतीरुपजुहोति नक्षत्रदेवताभ्यो यथानक्षत्रम् १५
चन्द्रमसे स्वाहा । प्रतीदृश्यायै स्वाहा इत्येतैः स्वाहाकारैरान्तादनुवाकस्य १६ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् १७
नक्षत्रहोमो व्याख्यातः १८

इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने त्रयोदशोऽध्यायः