अथ प्रथमप्रश्ने द्वादशोऽध्यायः
सप्तमेऽष्टमे वा मासि कर्णवेधः १
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वाऽथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति श्रोत्रेण भद्रम् इति पुरोनुवाक्यामनूच्य येन प्राच्यै इति याज्यया जुहोति २
अथाज्याहुतीरुपजुहोति प्राणो रक्षति विश्वमेजत् इत्येतेनानुवाकेन प्रत्यृचम् ३
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ४
अथाग्रेणाग्निं वेणुपर्णेषु हुतशेषं निदधाति समुद्राय वायुनाय सिन्धूनां पतये नमः इति ५
अथाशिषो वाचयित्वा लोहितसूच्या वा कण्ठकेन वा दक्षिणं कर्णमातृणत्ति गा त्री त्रिष्टुप् इति । द्विपदा इत्युत्तरम् । ६
अथ लोहितसूत्रेण वा वेणुसूत्रेण वा कर्णौ बध्नाति वरुणस्य स्कम्भनमसि इति ७
श्वोभूते विस्रंसयति वरुणस्य स्कम्भसर्जनमसि इति ८
सूत्रेण वा वेणुकाण्डेन वा वर्धयति ९
अथाप्युदाहरन्ति पुत्राय च दुहित्रे च समानि ब्राह्मणक्रिया मन्त्रवद्गर्भ आजन्म जन्माद्य आवृतं स्त्रियै १०
सर्वेषु व्याहृतीर्विद्यादनाम्नातेषु कर्मसु होतव्या ब्रह्मभूताय नाक्रियो ब्राह्मणो भवेत् ११
अनग्निरक्रियश्शूद्रः तस्माज्जातोऽग्निना द्विजः नामधेयादि कर्तव्यमाकार्यादरणीकृतम् १२
मथित्वा वाऽथ शकलान् समिद्धे मन्त्रवत्तथा उपनयनादिवाजस्रं स्वयं चारणिमग्निना १३
सायम्प्रातर्विधानेन समिद्भिस्तत्र हूयते गुरुशुश्रूषणपरस्समारोप्यात्मनि स्वयम् १४
या ते अग्नेतिमन्त्रेणोपावरोहेति लौकिके हुत्वा व्रतानुचरितं समावृत्ते गुरोर्मतात् १५
विवाहं विधिवत्कृत्वा गृहस्थाश्रममाविशेत् वैवाहिको विधिः स्त्रीणामौपनायनिकस्स्मृतः १६
तावुभौ चारिणौ तस्मादौपासनमिति श्रुतिः
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने द्वादशोऽध्यायः