अथ प्रथमप्रश्ने एकादशोऽध्यायः
अथ प्रहुते प्रसिद्धं जातकर्म कृत्वा दशम्यां द्वादश्यां वा मातापितरौ स्नात्वा शुच्यगारं कृत्वा पुत्रस्य नामधेयस्य निदधीयातामिति १
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वा देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा प्राजापत्येन सूक्तेन जुहोति प्रजापते न त्वदेतान्यन्यः इति षड्भिरनुच्छन्दसम् २
जयप्रभृति सिद्धमाधेनुवरप्रदानात् ३
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयन्नामास्मै दधाति नक्षत्रनामधेयेन ४
द्वितीयमस्य नामधेयं गुह्यमस्यान्यदभिवादनीयमोपनयनकालान्मातापितरौ संविदितौ भवतः ५
विज्ञायते च तस्मात् द्विनामा ब्राह्मणोऽर्धुकः इति ६
सोमयाजी तृतीयं नामधेयं कुर्वीत इति विज्ञायते ७
अयुगक्षरं कुमार्यै स्वस्ति श्रीसोम्येति दीर्घवर्णान्तम् ८
अथाप्युदाहरन्ति शर्मान्तं ब्राह्मणस्य बर्मान्तं क्षत्रियस्य गुप्तान्तं वैश्यस्य भृत्यदासान्तं शूद्रस्य दासान्तमेव वा ९
अथ यदि ब्राह्मणं न विन्देतौपासने ज्योतिष्मत्या पुत्रस्य नाम गृह्णात्युपतिष्ठते वा १०
अथ नक्षत्राणि रोहिणीमृगशीर्षमखाचित्राज्येष्ठाश्रवणशतभिषक् रेवत्याश्वयुक्षु प्रथमाक्षरवृद्धिस्स्याद्रोहिण्यां रौहिणायेति । तथेतराणि ११
तिष्य आश्लेषा हस्त विशाखा अनूराधा आषाढा श्रविष्ठासु प्रकृतिवत्तिष्यायेति । तथेराणि १२
फल्गुन्यां फाल्गुनायेति १३
स्वातीपुनर्वस्वोः स्वातये पुनर्वसव इति १४
मूलार्द्रयोः मूलकायार्द्रकायेति १५
प्रोष्ठपदासु प्रोष्ठपदाय प्रौष्ठपदायेति वा १६
अपभरण्यामपभरणायापभरणायेति वा १७
अग्नये कृत्तिकाय कार्तिकायेति वा व्याख्यातान्यग्नेहोतुः १८
स्त्रीविषये कुमार्यै रोहिण्यै सुश्रियै गौर्यै स्वस्तीति १९
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने एकादशोऽध्यायः