१० पुण्याहः

अथ प्रथमप्रश्ने दशमोऽध्यायः

विश्वास-प्रस्तुतिः

अथातः पुण्याहं व्याख्यास्यामः ॥ १ ।

मूलम्

अथातः पुण्याहं व्याख्यास्यामः ॥ १ ।

स्थितिः

विश्वास-प्रस्तुतिः

शुचौ समे देशे दर्भन् दूर्वां धारयमाणाः
चत्वारो ब्राह्मणा
अरिक्तहस्ताः
प्राङ्मुखा युग्मास् तिष्ठन्ति ॥ २

मूलम्

शुचौ समे देशे दर्भान्दूर्वां धारयमाणाः चत्वारो ब्राह्मणा अरिक्तहस्ताः प्राङ्मुखा युग्मास्तिष्ठन्ति २

विश्वास-प्रस्तुतिः

तेषां दक्षिणत उदङ्-मुखो वा
ऽपिहितम् उदकुम्भं धारयन्
वाचयिता,
तस्य दक्षिणं बाहुम् आश्रित्य पत्न्यस् तिष्ठन्ति ॥ ३

मूलम्

तेषां दक्षिणत उदङ्मुखो वापिहितमुदकुम्भं धारयन्वाचयिता तस्य दक्षिणं बाहुमाश्रित्य पत्न्यस्तिष्ठन्ति ३

कुम्भार्चनादि

विश्वास-प्रस्तुतिः

पूर्ण-कुम्भम् अभ्यर्च्य
दर्भेष्व् आसीनो दर्भान् धारयामाणोऽनुज्ञां कुर्यात्-
‘भवद्भिर् अनुज्ञातः पुण्याहं वाचयिष्ये’ इति ।
ते प्रणवपूर्वं ‘वाच्यताम्’ इति प्रतिब्रूयुः ॥ ४

मूलम्

पूर्णकुम्भमभ्यर्च्य दर्भेष्वासीनो दर्भान्धारयमाणोऽनुज्ञां कुर्यात् भवद्भिरनुज्ञातः पुण्याहं वाचयिष्ये इति । ते प्रणवपूर्वं वाच्यताम् इति प्रतिब्रूयुः ४

विप्रार्चनम्

विश्वास-प्रस्तुतिः
  • ओं स्थित्वा तेषां सपावित्रेषु पाणिषु जलं ददाति ‘ओम् आपः’ इति ।
    • ‘शिवा आपस्तन्तु’ इति प्रत्यूचुः ॥ ६
मूलम्

ॐ स्थित्वा तेषां सपवित्रेषु पाणिषु जलं ददाति ओमापः इति । शिवा आपस्तन्तु इति प्रत्यूचुः ५

विश्वास-प्रस्तुतिः
  • ततः ‘गन्धाः’ इति गन्धं ददाति !
    • ‘सुगन्धाः पान्तु’ इति प्रतिगृह्णन्ति ॥
मूलम्

ततः गन्धाः इति गन्धं ददाति । सुगन्धाः पान्तु इति प्रतिगृह्णन्ति ६

विश्वास-प्रस्तुतिः
  • तेभ्यः ‘सुमनसः’ इति पुष्पं ददाति ।
    • ते ‘सौमनस्यम् अस्तु’ इति प्रतिगृह्णन्ति ॥
मूलम्

तेभ्यः सुमनसः इति पुष्पं ददाति । ते सौमनस्यमस्तु इति प्रतिगृह्णन्ति ७

विश्वास-प्रस्तुतिः
  • तेषां पाणिषु ‘अक्षतम्’ इति अक्षतान्ददाति । अक्षत-शब्देन व्रीहिमिश्रास् तण्डुला उच्यन्ते ।
    • ‘अक्षतं चारिष्टं चास्तु’ इति प्रतिगृह्णन्ति ॥
मूलम्

तेषां पाणिषु अक्षतम् इति अक्षतान्ददाति । अक्षतशब्देन व्रीहिमिश्रास्तण्डुला उच्यन्ते । अक्षतं चारिष्टं चास्तु इति प्रतिगृह्णन्ति ८

विश्वास-प्रस्तुतिः
  • ब्राह्मणा अभुक्ताश्चेत् ‘ओम् अन्वाहार्यः’ इत्य् ओदनं ददाति ।
    • ते ‘स्व्-अन्वाहार्योऽस्तु’ इति प्रतिगृह्णन्ति ॥ ९
मूलम्

ब्राह्मणा अभुक्ताश्चेत् ओमन्वाहार्यः इत्योदनं ददाति । ते स्वन्वाहार्योऽस्तु इति प्रतिगृह्णन्ति ९

विश्वास-प्रस्तुतिः
  • तेभ्यो ‘दक्षिणाः’ इति दक्षिणां ददाति ।
    • ‘स्वस्ति, दक्षिणाः पान्तु, बहुदेयं चास्तु’ इति प्रत्यूचुः ॥ १०
मूलम्

तेभ्यो दक्षिणाः इति दक्षिणां ददाति । स्वस्ति दक्षिणाः पान्तु बहुदेयं चास्तु इति प्रत्यूचुः १०

अभिमन्त्रणम्

विश्वास-प्रस्तुतिः

ततो वाचयिता दक्षिणं जानुं भूमौ निधाय,
सव्यम् उत्थाप्योदुङ्मुखः ‘इडा देवहूः’ इति जपात ।

इडा॑ देव॒हूः ...{Loading}...
भास्करोक्त-विनियोगः

3आर्त्विज्यं वा करिष्यन् शस्त्रं वा प्रतिगरिष्यन् जपति - इडेति ॥

मूलम् (संयुक्तम्)

इडा॑ देव॒हूर्मनु॑र्यज्ञ॒नीर्बृह॒स्पति॑रुक्थाम॒दानि॑ शँसिष॒द्विश्वे॑ दे॒वाः [3] सू॒क्त॒वाच॒ᳶ पृथि॑वि मात॒र्मा मा॑ हिँसी॒र्मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीन्दे॒वेभ्यो॒ वाच॑मुद्यासँ शुश्रू॒षेण्या॑म्मनु॒ष्ये॑भ्य॒स्तम्मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरोऽनु॑ मदन्तु ॥ [4]

विश्वास-प्रस्तुतिः

इडा॑ देव॒हूर्,
मनु॑र् यज्ञ॒-नीर्,
बृह॒स्-पति॑र् उक्था-म॒दानि॑+++(=प्रतिगरान्)+++ शँसिष॒द् ,
विश्वे॑ दे॒वास् सू॑क्त॒-वाचः॑ ।

Keith

May Ida who summoneth the gods, Manu who leadeth the sacrifice,
May Brhaspati recite the hymns and acclamations.
The All-gods [1] are reciters of the hymns.

मूलम्

इडा॑ देव॒हूर्, मनु॑र्यज्ञ॒नीर्, बृह॒स्पति॑रुक्थाम॒दानि॑ शँसिष॒द् , विश्वे॑ दे॒वास्सू॑क्त॒वाचः॑ ।

भट्टभास्कर-टीका

इडा देवी गौर् वा प्रष्टिर्वा,
यामुपह्वयते सा देवहूः
देवानामाह्वाता होता ।
यद्वा - सा देवानां
मनुर् यज्ञनीः यज्ञस्य नेता मनुः प्रजापतिः वा
बृहस्पतिरुक्थामदानि शस्त्र-प्रतिगरादीनि
शंसिषत् शंसति शस्त्राणि शंसति
मदान् प्रतिगरान् शंसति । शंसेर्लेटि ‘सिब्बहुलं लेटि’ इति सिप् । उक्थशब्दस्य संहितायां छान्दसं दीर्घत्वम् । विश्वेदेवाः सूक्तवाचः सूक्तवाकस्य वक्तारः सूक्तं सूक्तवाकः, तद्ब्रुवन्तीति सूक्तवाचः । ‘क्विब्वचि’ इत्यादिना क्विप्दीर्घत्वे । यस्मादेवं सर्वमेतदिडादयः कुर्वन्ति तस्मात्सत्यपि प्रमादे न मे कश्चिदपराधः ।

विश्वास-प्रस्तुतिः

पृथि॑वि मात॒र् मा मा॑ हिँसीः ।

Keith

O earth mother, do not harm me.

मूलम्

पृथि॑वि मात॒र्मा मा॑ हिँसीः ।

भट्टभास्कर-टीका

तस्मात् हे पृथिवि मातः सर्वस्य रक्षिके मा मा हिंसीः ।

मधु॑ मनिष्ये ...{Loading}...
विश्वास-प्रस्तुतिः

मधु॑ मनिष्ये
मधु॑ जनिष्ये
मधु॑ वक्ष्यामि
मधु॑ वदिष्यामि

Keith

Of honey shall I think, honey shall I produce, honey shall I proclaim, honey shall I speak,

मूलम्

मधु॑ मनिष्ये ।
मधु॑ जनिष्ये ।
मधु॑ वक्ष्यामि ।
मधु॑ वदिष्यामि ।

भट्टभास्कर-टीका

अहं तु मधु मनिष्ये मधुवदेव मनसा चिन्तयिष्यामि ।

विश्वास-प्रस्तुतिः

मधु॑मतीन् दे॒वेभ्यो॒ वाच॑म् उद्यासँ शुश्रू॒षेण्या॑म् मनु॒ष्ये॑भ्यः

Keith

may I utter speech full of honey for the gods, and acceptable to men.

मूलम्

मधु॑मतीन्दे॒वेभ्यो॒ वाच॑मुद्यासँ शुश्रू॒षेण्या॑म्मनु॒ष्ये॑भ्यः

भट्टभास्कर-टीका

देवेभ्यो मधुमतीं मधुवदनहेतुं न केवलप्रमादां वाचं उद्यासं वदितुं समर्थो भूयासम् । ‘किदाशिषि’ इति कित्त्वात् ‘वचिस्वपि’ इति संप्रसारणम् ।

मनुष्येभ्यः शुश्रूषेण्यां श्रवणीयां श्रुतिसुखहेतुं वाचं उद्यासमित्येव । उभयत्रापि षष्ठ्यर्थे चतुर्थी । सनन्तादौणादिक एण्यप्रत्ययः ।

विश्वास-प्रस्तुतिः

तम् मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ । पि॒तरो ऽनु॑ मदन्तु

Keith

May the gods aid me to radiance, may the Pitrs rejoice in me.

मूलम्

तम्मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ । पि॒तरोऽनु॑ मदन्तु ॥

भट्टभास्कर-टीका

तं मामेवंगुणं देवा अवन्तु रक्षन्तु शोभायै यथा मया कृतं शोभते तथा अनुमदन्तु अनुमोदन्तां, उत्कृष्टत्वेन समीचीनं करोतीति शोभार्थं पितरश्च अनुमोदन्तु । माद्यतेर्व्यत्ययेन शप् ॥

इति तृतीये तृतीये द्वितीयोनुवाकः ॥

इड॒ एहि॑ ...{Loading}...
विश्वास-प्रस्तुतिः

इड॒+++(य्)+++ एहि॑+++(=आ+इ॑हि)+++ ।
अदि॑त॒ एहि॑ ।
सर॑स्व॒त्य् एहि॑+++(=आ+इ॑हि)+++ ।

Keith

O Ida, come hither; O Aditi, come hither; O Sarasvati, come hither.

मूलम्

इड॒ एहि॑ ।
अदि॑त॒ एहि॑ ।
सर॑स्व॒त्येहि॑ ।

पद-पाठः

इडे॑ । एति॑ । इ॒हि॒ ।
अदि॑ते । एति॑ । इ॒हि॒ ।
सर॑स्वति । एति॑ । इ॒हि॒ ।

भट्टभास्कर-टीका

इडादयश् शब्दा गवां नामानि, यथा - ‘इडे रन्तेदिते सरस्वति प्रिये प्रेयसि महि विश्रुत्येतनि ते अघ्निये नामानि’ इति । ताच्-छब्द्येनेडा स्तूयते ।

तत्र गवां भेदान् निमृढ्वम् इति बहुवचनम् उपपद्यते, हे इडादयो यूयमागत्य मां निमृढ्वमिति । यदा तु गोभिर् अभेदेनेडोच्यते हे इडादिरूपे इड इति तदा त्वेकवचनम् एव न्याय्यम् । इडा पशुसाधनीड्या वा । अदितिर् अदीना अखण्डनीया ।
सरस्वती सरणवती सरस्वतीसदृशा वा ।

सायण-टीका

त एवेडाविशेषा इडादिभिः सूनर्यन्तैः षड्भिर्नामविशेषैः स्पष्टी क्रियन्ते। इडादीनां गोनामविशेषत्वं सप्तमकाण्डे समाम्नातम् – ‘इडे रन्तेऽदिते सरस्वति प्रिये प्रेयसि महि विश्रुत्येतानि ते अघ्‍निये नामानि’ (सं॰ का॰ ७ प्र॰ १ अ॰ ६) इति।
एतेषां प्रदर्शनार्थत्वाद्रमत्यादिकमपि द्रष्टव्यम्।

‘उदकुम्भम् आदायोपतिष्ठ’ इति प्रत्यूचुः ॥

मूलम्

ततो वाचयिता दक्षिणं जानुं भूमौ निधाय सव्यमुत्थाप्योदुङ्मुखः इडा देवहूः इति जपति । उदकुम्भमादायोपतिष्ठ इति प्रत्यूचुः ११

वाचनम्

विश्वास-प्रस्तुतिः
  • ततो वाचायिता ‘मनस्समाधयताम्’ इति । ‘समाहित मनसस्स्मः’ इतीतरे प्रत्याहुः ॥
मूलम्

ततो वाचयिता मनस्समाधीयताम् इति समाहितमनसस्स्मः इतीतरे प्रत्याहुः १२

विश्वास-प्रस्तुतिः
  • कर्ता ‘प्रसीदन्तु भवन्तः’ इति । ‘प्रसन्नास्स्मः।’ इति वाचयित्वा । यद्वा-सर्वमन्त्रैर् अनवानं वदेत् ॥ १३
मूलम्

कर्ता प्रसीदन्तु भवन्तः इति प्रसन्नास्स्मः इति वाचयित्वा यद्वा सर्वैर्मन्त्रैरनवानं वदेत् १३

विश्वास-प्रस्तुतिः
  • ‘शान्तिरस्तु, पुष्टिरस्तु, तुष्टिरस्त, वृद्धिरस्तु, अविघ्नमस्तु, आरोग्यमस्तु, शिवं कर्मास्तु’ इति । एवमेवेतरे प्रत्याहुः ॥
मूलम्

शान्तिरस्तु पुष्टिरस्तु तुष्टिरस्तु वृद्धिरस्तु अविघ्नमस्तु आरोग्यमस्तु शिवं कर्मास्तु इति । एवमेवेतरे प्रत्याहुः १४

विश्वास-प्रस्तुतिः
  • यद्देवत्यं भवति, तस्य नाम गृह्णाति ‘असौ प्रीयताम्’ इति । एवम् एवेतरे ॥
मूलम्

यद्देवत्यं भवति तस्य नाम गृह्णाति असौ प्रीयताम् इति । एवमेवेतरे १५

विश्वास-प्रस्तुतिः
  • वाचायिता ‘पुण्याहं भवन्तो ब्रुवन्तु’‘पुण्याहम्’ इतीतरे प्रयाहुः । एवमेव त्रिः ॥
मूलम्

वाचयिता पुण्याहं भवन्तो ब्रवन्तु ॐ पुण्याहम् इतीतरे प्रत्याहुः । एवमेव त्रिः १६

विश्वास-प्रस्तुतिः
  • ततः ‘स्वस्ति भवन्तो ब्रुवन्तु’ इति । ‘ओं स्वस्ति’ इततिरे प्रत्यूचुः ॥
मूलम्

ततः स्वस्ति भवन्तो ब्रुवन्तु इति । ॐ स्वस्ति इतीतरे प्रत्यूचुः १८

विश्वास-प्रस्तुतिः
  • ततो वाचयिता ‘ओं ऋद्धिं भवन्तो त्रुवन्तु ‘ इति । ‘ओं ऋध्यताम्’ इतीतरे प्रत्याहुः ॥
मूलम्

ततो वाचयिता ॐ ऋद्धिं भवन्तो ब्रवन्तु इति । ॐ ऋध्यताम् इतीतरे प्रत्याहुः १८

विश्वास-प्रस्तुतिः
  • एवमेव त्रिर् वचयित्वा ‘ओं पुण्याहसमृद्धिरस्तु, अस्तु’ इति,
    • ‘ओं शिवं कर्मास्तु, अस्तु’ इतीतरे प्रत्याहुः ॥ १९
मूलम्

एवमेव त्रिर्वाचयित्वा ॐ पुण्याहसमृद्धिरस्तु अस्तु इति ॐ शिवं कर्मास्तु अस्तु इतीतरे प्रत्याहुः १९

विश्वास-प्रस्तुतिः
  • यद्देवत्यं भवति तस्य नाम गृहाति ‘असौ प्रीयताम्’ इति ॥
    • ‘प्रीयतामसौ’ इति प्रतिबूयुः ॥
मूलम्

यद्देवत्यं भवति तस्य नाम गृह्णाति असौ प्रीयताम् इति २०
प्रीयतामसौ इति प्रतिब्रूयुः २१

प्रोक्षणान्तम्

विश्वास-प्रस्तुतिः

अथ व्याहृतिभिर् भूमौ जलं विसृज्योपविश्य
सुरभिमत्याऽब्लिङ्गाभिर् वारुणीभिर् हिरण्यवर्णाभिः पावमानीभिर् व्यहृतीभिर् इति मार्जयित्वा
पत्नीं च प्रोक्षतीत्य् आह भगवान् बोधायनः।

मूलम्

अथ व्याहृतिभिर्भूमौ जलं विसृज्योपविश्य सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिर्व्याहृतीभिरिति मार्जयित्वा पत्नीं च प्रोक्षतीत्याह भगवान्बोधायनः २२

इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने दशमोऽध्यायः