अथ प्रथमप्रश्ने नवमोऽध्यायः
- बोधायनीय-गृह्य-शेषे अत्र।
विश्वास-प्रस्तुतिः
अथातः पुण्याहदेवता व्याख्यास्यामः॥
मूलम्
अथातः पुण्याहदेवता व्याख्यास्यामः॥
विश्वास-प्रस्तुतिः
विवाहस्याग्निः प्रीयताम्
औपासनस्याग्निसूर्यप्रजापतयः प्रीयन्तां
पञ्चमेऽहन्युदुम्बरो
दशमेऽहन्यन्ते चित्र्याणि
स्थालीपाकस्याग्निः
मूलम्
विवाहस्याग्निः प्रीयताम्
औपासनस्याग्निसूर्यप्रजापतयः प्रीयन्तां
पञ्चमेऽहन्युदुम्बरो
दशमेऽहन्यन्ते चित्र्याणि
स्थालीपाकस्याग्निः
विश्वास-प्रस्तुतिः
गर्भाधानस्य ब्रह्मा
पुंसवनस्य प्रजापतिः
सीमन्तस्य धाता
विष्णुबलेस्सविता
मूलम्
गर्भाधानस्य ब्रह्मा
पुंसवनस्य प्रजापतिः
सीमन्तस्य धाता
विष्णुबलेस्सविता
विश्वास-प्रस्तुतिः
जातकर्मणो मृत्युः
नामकरणस्य सविता
तस्यान्ते प्रजापतिः
उपनिष्क्रामणस्य सविता
तस्यान्ते चित्र्याणि
अन्नप्राशनस्य सविता
मूलम्
जातकर्मणो मृत्युः
नामकरणस्य सविता
तस्यान्ते प्रजापतिः
उपनिष्क्रामणस्य सविता
तस्यान्ते चित्र्याणि
अन्नप्राशनस्य सविता
विश्वास-प्रस्तुतिः
चौलस्य केशिनः
तस्यान्ते प्रजापतिः
मूलम्
चौलस्य केशिनः
तस्यान्ते प्रजापतिः
विश्वास-प्रस्तुतिः
उपनयनस्येन्द्रश्श्रद्धामेधे इत्यन्ते विसर्गे सुश्रवाः
पुनरुपनयनस्याग्निः
मूलम्
उपनयनस्येन्द्रश्श्रद्धामेधे इत्यन्ते विसर्गे सुश्रवाः
पुनरुपनयनस्याग्निः
विश्वास-प्रस्तुतिः
अथ यदि ब्रह्मचार्यव्रत्यमिव चरेत्तस्मिन्नध्यायहोमे सविता
समावर्तनस्य श्रीरिन्द्रो वा
मूलम्
अथ यदि ब्रह्मचार्यव्रत्यमिव चरेत्तस्मिन्नध्यायहोमे सविता
समावर्तनस्य श्रीरिन्द्रो वा
विश्वास-प्रस्तुतिः
शूलगवस्येशानः
प्रत्यवरोहणस्य सविता
मूलम्
शूलगवस्येशानः
प्रत्यवरोहणस्य सविता
विश्वास-प्रस्तुतिः
उपाकर्मव्रतेषु च सविता
मूलम्
उपाकर्मव्रतेषु च सविता
विश्वास-प्रस्तुतिः
वास्तुहोमस्य वास्तोष्पतिः
अन्ते प्रजापतिः
मूलम्
वास्तुहोमस्य वास्तोष्पतिः
अन्ते प्रजापतिः
विश्वास-प्रस्तुतिः
अद्भुतहोमस्येन्द्रेः
अन्ते प्रजापतिः
मूलम्
अद्भुतहोमस्येन्द्रेः
अन्ते प्रजापतिः
विश्वास-प्रस्तुतिः
आयुष्यहोमस्याग्निरायुष्मान्
मूलम्
आयुष्यहोमस्याग्निरायुष्मान्
विश्वास-प्रस्तुतिः
नक्षत्रहोमस्य नक्षत्रेष्टिषूक्तम्
मूलम्
नक्षत्रहोमस्य नक्षत्रेष्टिषूक्तम्
विश्वास-प्रस्तुतिः
अष्टमी प्रदोषस्येशानः
मूलम्
अष्टमी प्रदोषस्येशानः
विश्वास-प्रस्तुतिः
आग्रयणहोमस्याग्रयणदेवताः
सर्पबलेस्सर्पाः
मूलम्
आग्रयणहोमस्याग्रयणदेवताः
सर्पबलेस्सर्पाः
विश्वास-प्रस्तुतिः
आदित्यपुरोगा ग्रहाः प्रीयन्ताम्
मूलम्
आदित्यपुरोगा ग्रहाः प्रीयन्ताम्
विश्वास-प्रस्तुतिः
अथैकोद्दिष्टस्यान्ते प्रजापतिस्
मूलम्
अथैकोद्दिष्टस्यान्ते प्रजापतिस्
विश्वास-प्रस्तुतिः
तटाकादीनां वरुणो देवता
मूलम्
तटाकादीनां वरुणो देवता
विश्वास-प्रस्तुतिः
यक्षिबलेर्यक्षी
मूलम्
यक्षिबलेर्यक्षी
विश्वास-प्रस्तुतिः
गृहशान्तिहोमस्यादित्यादिनवग्रहाः
मूलम्
गृहशान्तिहोमस्यादित्यादिनवग्रहाः
विश्वास-प्रस्तुतिः
गर्भाधानादितन्त्रहोमस्य ब्रह्मादयः प्रीयन्ताम्
मूलम्
गर्भाधानादितन्त्रहोमस्य ब्रह्मादयः प्रीयन्ताम्
विश्वास-प्रस्तुतिः
इत्येवमन्येषां होमानां याज्यापुरोनुवाक्ययोर्देवता तस्यासौ प्रीयतामिति ।
मूलम्
इत्येवमन्येषां होमानां याज्यापुरोनुवाक्ययोर्देवता तस्यासौ प्रीयतामिति ।
विश्वास-प्रस्तुतिः
सूतकान्ते प्रेतकान्ते प्रथमोदक्यान्ते च प्रजापतिः
मूलम्
सूतकान्ते प्रेतकान्ते प्रथमोदक्यान्ते च प्रजापतिः
विश्वास-प्रस्तुतिः
कूश्माण्डहोमस्याग्न्यादयः
मूलम्
कूश्माण्डहोमस्याग्न्यादयः
विश्वास-प्रस्तुतिः
चान्द्रायणहोमस्याग्न्यादयः
मूलम्
चान्द्रायणहोमस्याग्न्यादयः
विश्वास-प्रस्तुतिः
अग्न्याधेयेऽग्नीषोमेन्द्राः
मूलम्
अग्न्याधेयेऽग्नीषोमेन्द्राः
विश्वास-प्रस्तुतिः
एवमनादिष्टकर्मसु प्रजापतिः १
मूलम्
एवमनादिष्टकर्मसु प्रजापतिः १
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने नवमोऽध्यायः