अथ प्रथमप्रश्ने अष्टमोऽध्यायः
अथ शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलं कृत्वा प्रादेशमात्रमुच्छ्रितं चतुरङ्गुलं वा किञ्चिद्दक्षिणत उन्नतो भवति १
प्राचीनप्रवणं किंकामस्य उदीचीनप्रवणं किङ्कामस्य । प्राचीनप्रवणं ब्रह्मवर्चसकामस्योदीचीनप्रवणमन्नाद्यक मस्य प्रागुदक्प्रवणं प्रजाकामस्य समं प्रतिष्ठाकामस्य २
उपलिप्तं वैश्वदेवत्यमुद्धत्यं नाकदेवत्यमवोक्षणं पितृदेवत्यं सैकतं सिन्धु देवत्यमुल्लेखनं यमदेवत्यं निरसनं रुद्रदेवत्य स्पर्शनं वरुणदेवत्यमग्निविधानं विष्णुदेवत्यं विहरणं वामदेवत्यं कर्म गायत्र्याः परिस्तरणदर्भाज्यस्थालीस्रुवजुहूनां पृथिवीदेवत्यं स्रुक्सोमदेवत्यमाज्यं वसुदेवत्यं पवित्रं विष्णुदेवत्यं चरुः प्रजापतिदेवत्यं मेक्षणं अग्निदेवत्यं सम्मार्जनं रुद्रदेवत्यं कूर्चं प्रजापतिदेवत्यमुदकुम्भं अब्देवत्यं प्रणीता वरुणदेवत्यमश्म महेन्द्रदेवत्यं वासः सोमदेवत्यं कर्ता बृहस्पतिदेवत्यं धूमं अतिथिदेवत्यमिध्मं अग्निदेवत्यं मध्यमपरिधिः यजमानदेवत्यं दक्षिणपरिधिः इन्द्रदेवत्यमुत्तरपरिधिः वरुणदेवत्यमूर्ध्वसमिधौ सूर्यदेवत्यमिन्द्राग्नियमनिरृतिवरुणवायुसोमेशाना अष्ट दिग्देवत्यं व्यजनं वायुदेवत्यं गन्धं अश्विनिदेवत्यं पुष्पं गान्धर्वदेवत्यं धूपं इन्द्रदेवत्यं दीपं भानुदेवत्यं प्रयाजानूयाजं ऋतुदेवत्यं पक्वं प्रधानदेवत्यमुपहोमाः यथालिङ्गदेवत्यं यत्र यत्र होमे मन्त्रविधानं तत्र तत्र तल्लिङ्गदेवत्यं परिषत् ब्रह्मदेवत्यं सदस्याः सर्वदेवत्यमन्येषामनुक्ताना प्रजापतिदेवत्यं योऽस्य दैवतं मन्त्रतः कर्मतो वाभिज्ञाय जुहोति सोऽश्नुते श्रियमायुष्यमारोग्यं स्वर्ग्यं च भवति ३
अग्निहीनमनावृष्टिः मन्त्रहीनं तु ऋत्विजः आज्यहीनं कुलं हन्ति स्वरहीनं तु पत्नयः ४
यजमानं दक्षिणाहीनमन्नहीनं तु राष्ट्रकम् सर्वहीनं सदस्यानि नास्ति यज्ञसमो रिपुः ५
तस्मात्सर्वप्रयत्नेन किञ्चिद्द्रव्यस्समाचरेत् श्रियःकामश्चरेत्सर्वं समृद्धं सहदक्षिणम् ६
एवं ऋषिविधानोक्तं मुनीनां तत्त्ववेदिनाम् सर्ववेदाह्निकं होमं सर्वलोकेषु पूजितम् ७
सर्वलोकेषु पूजितमितीत्याह भगवान् बोधायनः ८
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने अष्टमोऽध्यायः