अथ प्रथमप्रश्ने सप्तमोऽध्यायः
सर्वत्र दर्वीहोमानामष्टोत्तरशतं दर्भाः द्वे हस्तपवित्रे द्वे आसने प्रागुदीचीनाग्रैष्षोडाश परिस्तरणं दक्षिणतः प्रागग्रैस्सप्तदश पश्चादुदीचीनाग्रैरष्टादशोत्तरतः प्रागग्रैस्सप्तदश पात्राणा पञ्च सप्तदश ब्रह्मासनं प्रणीतासने द्वे द्वे आज्यपवित्रे द्वे अभिद्योतने द्वे दर्भाग्रे द्वे पर्यग्निकरणे स्रक्सम्मार्जनं चतुर्भ्य इति १
अरत्निमात्रं षडङ्गुलं तिस्रश्शम्याः परिधीन् कृत्वा मध्यमाङ्गुलिरनामिका कनिष्ठिकेति स्थविष्ठो मध्यमोऽणीयान् द्राघीयान् दक्षिणतोऽणिष्ठो ह्रसिष्ठ उत्तरतोऽङ्गुष्ठपर्वमात्रमष्टादश याज्ञिकाः काष्ठाः प्रादेशमात्रं पवित्रं दर्भेतरुणकाभ्यामङ्गुष्ठपर्वमात्रं प्रोक्षणीमाज्यस्थालीं प्रस्थचतुर्भागं पूर्ण प्रस्थद्विभागं प्रणीताप्रणयनं चरुस्थालीं प्रस्थमाहुतिप्रमाणं चतुरङ्गुलमवदानप्रमाणमङ्गुष्ठपर्वमात्रं दर्वीप्रमाणमेकविंशत्यङ्गुष्ठं तस्या द्व्यङ्गुष्ठमुन्नतं पञ्चाङ्गुष्ठं बिलमेवमेव स्रुक्प्रादेशमात्रमुच्छ्रितं चतुरङ्गुलं वा किञ्चिद्दक्षिणत उन्नतो भवति मेक्षणमिति होमदर्वीप्रमाणमिति ह स्माह बोधायनः २
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने सप्तमोऽध्यायः