अथ प्रथमप्रश्ने षष्ठोऽध्यायः
अथातः परिस्तरणविधिं व्याख्यास्यामः १ दर्भैरविच्छिन्नाग्रैरनखच्छिन्नैरविवर्णकैरव्याधिकरदग्धमूलैश्चतुरङ्गुलाधिकैर्मूलं छिन्द्याद्धस्तसममाज्येनाभ्यज्य वा स्पृष्ट्वाज्येन वा स्पृष्टैरद्भिरनुमृज्य देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां परिस्तृणामि इति पुरस्तात्परिस्तीर्य दक्षिणेन व्याहृतिभिः पश्चिमेन उद्वयं तमसस्परि इति उत्तरेण अग्न आयाहि वीतये इति दक्षिणेनाग्निं ब्रह्मायतन उपवेश्य ॐ भूर्भुवस्सुवरॐ ब्रह्मन् । ब्रह्मासि नमस्ते ब्रह्मन् । ब्रह्मणे इत्यासनं कल्पयित्वोत्तरेणाग्निं प्रणीताभ्यः कल्पयित्वा वरुणोऽसि धृतव्रतो वारुणमसि इति २ एतस्मात्परिस्तरणविधिर्व्याख्यातः ३
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने षष्ठोऽध्यायः