०५

अथ प्रथमप्रश्ने पञ्चमोऽध्यायः

अथातस्सिकतादोषं व्याख्यास्यामः १ भस्मकेशतुषकपालशर्करतृणास्थिपिपीलिकैरार्द्रसिकतानि वर्जयेत् २
भस्मना यजमानक्षयः केशेन स्त्रीमरणं तुषेण पुत्रघ्नं कपालैरर्थनाशनं शर्करैर्बन्धुवियोगः तृणेन कर्मक्षयः अस्थिना ग्रामविनाशः पिपीलिकैः राष्ट्रविनाशः आर्द्रसिकतैर्व्याधिभयं भवतीत्याह भगवान् बोधायनः ३

इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने पञ्चमोऽध्यायः