अथ प्रथमप्रश्ने चतुर्थोऽध्यायः
अथातस्स्थिण्डलविधिं व्याख्यास्यामः १
सिकताश्चतुरङ्गुलं प्राचीनमुद्धृत्य पञ्चाङ्गुलिप्रमाणं पश्चिमत ऊर्ध्वमङ्गुलिविशेषं दक्षिणत ऊर्ध्वमङ्गुलिविहीनमुत्तरतः पञ्चप्रस्थं सिकताश्शुचयश्शुक्ला अनार्द्रा अरत्निमात्रं समचतुरश्रं प्राक्प्रवणं स्थण्डिलं करोति २
न लोष्ठेन न काष्ठेन न शर्करैर्न नखैः । काष्ठेन व्याधितस्स्याल्लोष्ठेन कुलनाशनम् । शर्करैः पुत्रनाशस्स्यान्नखैर्बन्धुविनाशनम् ३
तस्मात्सुवर्णरजतताम्रशकलेन व्रीहिभिर्यवैर्वा दर्भैस्तदङ्गुष्ठेन च महानाम्न्या चोपसङ्गृह्य तस्य मध्यतः प्राचीनं सन्ततमृजुमुल्लिखेत् । किन्देवत्यं किम्मन्त्रमिति । ब्रह्मदेवत्यं ब्रह्म जज्ञानम् इति ४
तस्य दक्षिणतः प्राचीनं सन्ततमृजुमुल्लिखेन् । किन्देवत्यं किम्मन्त्रमिति यमदेवत्यं नाके सुपर्णम् इति ५
तस्योत्तरतः प्राचीनं सन्ततमृजुमुल्लिखेत् । किन्देवत्यं किम्मन्त्रमिति । सोमदेवत्यं आप्यायस्व समेतु ते इति ६
तस्य मध्यत उदीचीनं सन्ततमृजुमुल्लिखेत् । किन्देवत्यं किम्मन्त्रमिति रुद्रदेवत्यं यो रुद्रो अग्नौ इति ७
तस्यः पश्चादुदीचीनं सन्ततमृजुमुल्लिखेत् । किन्देवत्यं किम्मन्त्रमिति । विष्णुदेवत्यम् इदं विष्णुर्विवक्रमे इति ८
तस्य पुरस्तादुदीचीनं सन्ततमृजुमुल्लिखेत् । किन्देवत्यं किम्मन्त्रमिति । इन्द्रदेवत्यम् इन्द्रं विश्वा अवीवृधन् इत्येतस्मात् स्थण्डिलविधिर्भवति ९
न कपालो न धूमो न ज्वालो न विस्फुटो न नम्रमुखो द्रप्सं पतितं मुखज्वलितं च वर्जयित्वा देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां भूर्भुवस्सुवरोम् इत्याह भवगवान् बोधायनः १०
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने चतुर्थोऽध्यायः