अथ प्रथमप्रश्ने तृतीयोऽध्यायः
अथातोऽपूर्वं व्याख्यास्यामः १
परिसमूह्य पर्युक्ष्य परिस्तीर्य परिषिच्योपसमाधायालङ्कृत्य यावदाम्नातमाहुतीर्जुहोत्याद्यन्तयोर्व्याहृतिभिराज्याहुतिः परिधानं प्रणीताप्रणयनं ब्रह्मोपवेशनं च न विद्यते विद्यते वा पूर्वैर्मन्त्रैरुपांशूक्त्वा उत्सृजत इत्युच्चैरेवमेवोपकल्पयतीति विज्ञायते २
पाकयज्ञसंस्थानां न तिष्ठद्धोमो विद्यते विज्ञायते च अन्यत्र विहाराद्भूयते सर्वास्ताः पाकयज्ञसंस्थाः इति ३
अथ संस्थायामाद्यन्तयोः परिषेचनं यथा पुरस्तात् ४
विज्ञायते नासमित्के जुहुयाद्यदसमित्के जुहुयाद्यथाजिह्वेऽन्नं दद्यात्तदृक्तस्मात्समिद्वत्येव होतव्यम् इति ५
अनादिष्ट उपसमाधाय होतव्यमनादिष्ट उपहत्यैव होतव्यमिति ६
मेक्षणेन अमुष्मै स्वाहा अमुष्मै स्वाहा इति दैवतं जुहोति ७
अथाप्युदाहरन्ति ओषध्यस्सक्तवः पुष्पं काष्ठं मूलं फलं तृणम् । एतद्धस्तेन होतव्यं नान्यत्किञ्चिदचोदनात् इति ८
ओषध्यादिवद्बलिहरणं प्राक्परिषेचनाद्धुतशेषप्रदानं प्राशनं चैवमेव मूर्ध्नि संस्रावहोमः प्रदक्षिणं चान्यत्रोपनयनात् ९
सावित्रीमर्थायार्थायाग्निं प्रणयति ११
अपवृत्ते कर्मणि लौकिकस्सम्पद्यते १२
अथ यद्युत्करेऽग्न्युपस्थानादि समानं निवर्तते पूर्णाहुतिस्समानमत ऊर्ध्वम् १३
इति बोधायनीये गृह्यशेषसूत्रे प्रथमप्रश्ने तृतीयोऽध्यायः