अथ प्रथमप्रश्ने द्वितीयोऽध्यायः
उपनयनादिरग्निस्तमौपासन इत्याचक्षते १
दारकाले दायाद्यकाले वा नित्यो धार्यः २
अनुगते प्रायश्चित्तं प्रसिद्धम् ३
तस्मिन् पाकयज्ञसंस्थानि दैवानि कर्माणि क्रियन्ते ४
उपस्थानादि समानमन्यत्र प्रजासंस्कारात् ५
प्रजासंस्कारार्थमन्यत्र शुचौ देशे स्थण्डिलं कृत्वोल्लिखेन्मध्ये प्राचीनमेवं दक्षिणत एवमुत्तरतो मध्यादुदीचीनमेवं पश्चादेवं पुरस्तात् ६
औपासनादेकदेशं प्रणवेनाहृत्य व्याहृतिभिर्नियुप्यापि वा श्रोत्रियागारात् ७
एवमौपासनमुपसमाधाय मयि गृह्याम्यग्रे अग्निं यो नो अग्निः पितरः इति द्वाभ्यामात्मन्यग्निं गृहीत्वोपस्थानादि समानमापात्रसादनात् ८
कथमु खलु पात्रसादनानामानुपूर्व्यं भवति आज्यस्थालीं स्रुवं च जुहूं च दर्वीं च प्रणीताप्रणयनं प्रोक्षणीपात्रं चरुस्थालीं मेक्षणं चेध्माबर्हिरिध्मप्रव्रश्चनान्येवमेवान्यानि द्वन्द्वं न्यञ्चि न हीने नातिरिक्ते सादयति ९
समानं कर्म स्रुक्सम्मार्जनात् १०
स्रुक्स्रुवं सम्मृज्य स्रुचि चतुर्गृहीतं गृहीत्वा पूर्णाहुतिं जुहोति सप्त ते अग्ने समिधस्सप्त जिह्वाः इति ११
औपासनादग्निप्रणयनं विद्यते १२
अथ परिधानप्रभृति समानम् १३
अथाप्युदाहरन्ति असंस्कृताभिरद्भिः प्रोक्षणीभिरप्रोक्षितपात्रैर्होमश्चासंमार्जनैः स्रुक्स्रुवैर्नाधिश्रितपक्वैराज्येन न प्रचरितव्यं यदि प्रचरेद्यातुधाना असुरा रक्षांसि पिशाचा यज्ञं ग्राहयेयुः इति १४
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने द्वितीयोऽध्यायः