०१

अथातस्सप्तपाकयज्ञानामुक्तं तच्छैषं व्याख्यास्यामः १ पवित्रकरणं प्रोक्षणीसंस्कारं प्रणीताप्रणयनं स्रुक्स्रुवसम्मार्जनमिति दर्शपूर्णमासवत्तूष्णीम् २
अथाग्निं परिस्तीर्य दक्षिणेनाग्निं ब्रह्मायतने दर्भान् संस्तीर्योत्तरेणाग्निं प्रागग्रान् दर्भान् संस्तीर्य तेषु पात्राणि सादयित्वा तूष्णीं संस्कृताभिरद्भिरुत्तानानि पात्राणि कृत्वा विस्रस्येध्मं त्रिस्सर्वाभिः प्रोक्ष्य दर्भेसु दक्षिणतो ब्राह्मणमुपवेशयति दर्शपूर्णमासवत्तूष्णीम् ३ अरत्निमात्राः परिधयः आर्द्रा वा सत्वक्काः ४ प्रादेशमात्राण्येकविंशतिरिध्मदारूणि भवन्ति इति ब्राह्मणेन व्याख्यातम् ५
अथ यदि शम्याः परिदधाति शमीमय्यश्शम्याकृतयो वाऽरत्निमात्राः ६ अथेध्ममभ्यज्य परिसमिधं शिनष्टि ७ स्वाहाकारेणाभ्याधायाघारावाघार्याज्यभागौ प्रतिमुखं प्रबाहुग्जुहोति ८
प्रसिद्धमाग्निमुखात्कृत्वा स्रुवेण दर्व्यामुपस्तीर्य पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति प्रत्यनक्ति ९
यदि पञ्चावत्ती स्याद्दर्व्यामुपस्तीर्य मध्यात्पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति प्रत्यनक्ति १०
स्रुवं निमृज्य यथादेवतं पुरोनुवाक्यामनूच्य याज्यया जुहोति ११
अथोपस्तीर्य सकृदुत्तरार्धात् स्विष्टकृतमवद्यति द्विरभिघारयति न प्रत्यनक्ति १२
तमन्तःपरिधि सादयित्वा यथाम्नातमाज्याहुतीर्जुहोति १३
व्याहृतिभिरनाम्नातेषु १४
अथ स्विष्टकृतमादायोत्तरार्धपूर्वार्धे जुहोति पूर्वेण वात्रैतं मेक्षणमनुप्रहरति १५
अथैनत् संस्रावेणाभिजुहोति १६
दर्व्यामप आनीय सङ्क्षालनमन्तः परिधि निनयति १७
निर्णिज्य स्रुचं निष्टप्याद्भिः पूरयित्वा बहिः परिधि निनयति १८
अथ समिधमाधाय जयान् जुहोति चित्तं च स्वाहा इति १९ त्रयोदश स्रुवाहुतीर्हुत्वाऽभ्यातानान् जुहोति अग्निर्भूतानामधिपतिस्स मावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रे स्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्यां स्वाहा इति २०
सप्तदश स्रुवाहुतीर्हुत्वा वाचयति पितरः पितामहाः परेऽवरे ततास्ततामहा इह माऽवत इति २१
अथ राष्ट्रभृतो जुहोति ऋताषाडृतधामाऽग्निर्गन्धर्वस्स इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा तस्यौषधयोऽप्सरस ऊर्जो नाम ता इदं ब्रह्म क्षत्रं पान्तु ताभ्यस्स्वाहा इति २२
एवमेवान्तादनुवाकस्यान्यत्र भुवनस्य पते स नो भुवनस्य पते इति २३
अथामात्यहोमान् जुहोति यद्देवा देवहेडनम् इत्यन्तादनुवाकस्य प्रत्यृचम् २४
अथ प्राजापत्यां जुहोति प्रजापते न त्वदेतान्यन्यः इति २५ अथ सौविष्टकृतं जुहोति यदस्य कर्मणः इति २६
स्रुवेण परिधीननक्ति २७
अथ परिस्तरात्समुल्लिप्याज्यस्थाल्यां प्रस्तरवद्बर्हिरक्त्वा तृणं प्रच्छिद्याग्नावनुप्रहृत्य तूष्णीं तृणं चाथ शम्या अपोह्य परिवीननुप्रहरति २८
मध्यमं परिधिमनुप्रहृत्याथेतरावुपसमस्यति २९
अथैनान् संस्रावेणाभिजुहोति ३०
अथाग्रेणाग्निं यथाम्नातं हुतशेषं दत्वा शेषं कुर्यादन्यत्र विवाहशेषात् ३१
तथैव परिषिञ्चति अन्वमंस्थाः प्रासावीः इति मन्त्रान्तान् सन्नमयति ३२
अथ प्रणीताभ्यो दिशो व्युन्नयति दर्शपूर्णमासवत्तूष्णीम् ३३
ब्राह्मणं विसृज्य शेषं प्राश्नाति आयुरसि विश्वायुरसि इति ३४ प्राश्याप आचम्य जठरमभिमृशति यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम् ३५
शेषमभिघारितं ब्राह्मणाय दद्यात् ३६
न पत्न्या हविषां भक्षणमन्यत्रोच्छिष्टमभिसम्पाताभिहुतानां पिण्डदानस्य शेषं च नैव देवताहुतशेषमन्यत्र ब्रह्मौदनात् ३७

इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने प्रथमोऽध्यायः