अथ द्वितीयप्रश्ने सप्तमोऽध्यायः
षष्ठोऽहनि शुची स्नातौ शुक्लवस्त्रौ स्वलङ्कृतौ हविष्यमन्नमादाय ब्राह्मणान् सुसमाहितान् १
भोजयित्वोपसङ्गृह्य सुसन्तृप्तेषु तेष्वथ पुण्याहं वाचयित्वा तानभिवाद्य प्रणम्य च २
श्वेतायाश्श्वेतवत्सायास्स्थालीपाकं तु पाचयेत् गायत्र्याऽष्टसहस्रं तु सम्पाताभिहुतो भवेत् ३
उभौ तु तद्धुतं प्राश्य कुर्वीत प्रतिमन्त्रणम् जघन्ये रात्रिपर्याये सर्वत्रोपगमस्स्मृतः ४
प्रागग्रेषु तु दर्भेषु प्राक्शिरां तु निपातयेत् चतुर्होतारं मनसाऽनुद्रुत्य प्रणवेनाहुतिर्भवेत् ५
एवमुत्पादिताः पुत्रा न लुप्यन्ते कदाचन न लुप्यन्ते कदाचनेति ६
इति बोधायनीये गृह्यपरिभाषासूत्रे द्वितीयप्रश्ने सप्तमोऽध्यायः