अथ द्वितीयप्रश्ने षष्ठोऽध्यायः
यथो एतद्यत्किञ्चिदन्यत्र विहाराद्धूयते सर्वास्ताः पाकयज्ञसंस्था इति १
या एवैता अभिचाराय पावनाय शान्तये समृद्धये स्वस्तये वा हूयन्ते ता एवैता उक्ता भवन्ति २
ताश्चेद्राजन्यो वैश्यश्च ब्राह्मणं पुरोदधीत ३
तदभिगम्याभिबाद्य ब्रूयात् आकूत्यै त्वा कामाय त्वा समृधे त्वा पुरोदधे अमृतत्वाय जीवसे इति ४
पुरोहितो जपति आकूतिमस्यावसे काममस्य समृद्ध्यै । इन्द्रस्य युञ्जते धियः इति ५
स्वयं जपति आकूतिं देवीं मनसः पुरोदधे । यज्ञस्य माता सुहवा मे अस्तु । यदिच्छामि मनसा स कामो विदेयमेनद्धृदये निविष्टम् इति ६
सर्वत्र दैवेषु पुरस्तादुदग्वोपक्रमोऽपवर्गः प्रदक्षिणमुपचारो यज्ञोपवीतं प्रागग्रैर्दर्भैरग्नीनां परिस्तरण प्रागुदगग्रैर्वा पवित्राभ्यामुत्पवनम् ७
एवमेव विपरीतोपक्रमोपवर्गः पित्र्येषु दक्षिणाग्रैर्दर्भैरग्नीनां सम्परिस्तरणं दक्षिणाप्रती-च्यग्रैर्वा पवित्रेणोत्पवनम् ८
तेषामियमेव प्रतिपत्तिर्व्याहृतिपर्यन्तो होमः ९
अतोऽन्ये कर्मव्यञ्जका उपहोमाः पृथग्विनिविष्टा अन्योन्यमुपजीवन्तः १०
तदानीन्तनेष्वाचार्या ऊहसन्नमनैश्च मन्त्रैर्यज्ञं प्रतिसन्दधुरविच्छेदाय ११
य एवं विद्वान् यज्ञं यजेत यश्चैवं विद्वान् यज्ञेन यजते सर्वेण वै यज्ञेन यजते सर्वं चैव यज्ञं यजति १२
तदेषाऽभिवदति आ देवानामपि पन्थामगन्म यच्छक्रवाम तदनु प्रवोढुम् । अग्निर्विद्वान् स यजात्सेदु होता सो अध्वरान्त्स ऋतून् कल्पयाति इति १३
इति बोधायनीये गृह्यपरिभाषासूत्रे द्वितीयप्रश्ने षष्ठोऽध्यायः