अथ द्वितीयप्रश्ने पञ्चमोऽध्यायः

अथ यदि ब्राह्मणः क्षत्रियश्च समेत्यायातां ब्राह्मणोऽतिथिः क्षत्रिये सान्त्वम् १
अथ यदि क्षत्रियो वैश्यश्च समेत्यायातां क्षत्रियोऽतिथिर्वैश्ये सान्त्वम् २
अथ यदि वैश्यश्शूद्रश्च समेत्यायातां वैश्योऽतिथिश्शूद्रे सान्त्वम् ३
अथ यदि शूद्रमभ्यागतं कर्मणि नियुञ्ज्यात् ४
अथ यदि ब्रह्मचारी मातापित्रोराचार्यार्थं वाऽध्वनि वर्तमानो गृहमागच्छेन्नैनं प्रत्युत्तिष्ठेत् स्वागतमित्युक्त्वासनं पाद-शौचं च दत्वा कुशलमभिभाष्योपासीत ५ कापालमस्मै दद्यात् नियम-मेवोपतिष्ठस्व इति ६
उपावृत्ताय भैक्षमिति ब्रुवते गृहादेवान्नं भैक्षमित्युपहरेत्स तस्योपचारः ७
अथ यदि वानप्रस्थमभ्यागतं स्वागतमित्युक्त्वाभ्युत्थायासनं पादशौचं च दत्वा कुशलमभिभाष्योपासीत ८
विदित्वा चरणं कन्दमूल-फलशाकान्यारण्याश्चौषधय इत्युपहरेत्स तस्योपचारः ९
अथ यदि यतिमागतं स्वागतमित्युक्त्वाभ्युत्थायासनं पादशौचं च दत्वा कुशलमभिभाष्योपासीत १०
नैनं पूर्वमुपामन्त्रयेन्न चास्मै प्रक्रियां प्रकुर्वीत ११
काले त्वन्नं भैक्षमि-त्युपहरेत्स तस्योपचारः १२
अथ यद्यर्थी वसत्या शय्यादेशमुपकल्प्य काले ज्योतिष्करणं नोपस्तरणमेके ब्रुवते दद्याद्वा १३
बालानां वृद्धानां स्त्रीणां तु विभ्रष्टानां गूढचरितविकृतवेषाणामपि वा श्वचण्डालादीनामानृशंस्यवत् संविभागो विहितः १४
मूढो मत्त उन्मत्त आर्तो भीतो राजा चोरश्चेति स-म्भ्रमेणाभ्युस्थेयाः १५
आचार्य ऋत्विक्पिता मातुलः श्वशुरो वेदविद्ब्राह्मणः क्षत्रियोऽभिषिक्तस्सहस्रप्रदो वैश्यो राजपुरोहितश्चेत्यर्घ्यार्हा भवन्ति १६ पितृ-ज्येष्ठकनीयसामुपाध्यायपुत्रस्त्रिमधुस्त्रिणाचिकेतस्त्रिसुपर्णः पञ्चाग्निष्षडङ्गवित् शीर्षको ज्येष्ठसामिकोऽथर्वाङ्गिरसोऽध्येतारस्स्नातका इत्येते संवाहनस्नापन-शय्यालङ्कारविभूषणाच्छादनैरर्चनीया भवन्ति १७
अथ यदि बहवोऽतिथयो-ऽभ्यागच्छेरन् तत्रापि विद्वद्वृद्धकृशबालाश्चार्चनीया भवन्ति १८
अथ यद्य-तिथिरार्तो व्याधितो वा यद्ब्रूयादिदं मे क्रियतामित्यविद्यमानोऽन्यां प्रक्रियां प्रकुर्वीत १९
अथ यद्याग्रयणेष्टिपशुचातुर्मास्याध्वराणामुद्यतां दक्षिणां नोत्सृ-जेत्तां तस्मै दद्यात् अतिथिस्सर्वयज्ञक्रतुसम्मितः इति विज्ञायते २०
अथ यद्यतिथिरभ्यागतो वा यस्य गृहे नाश्नीयात् तस्य सर्वा देवता अवरुद्धा भवन्ति तस्मात्सदारस्सापत्योऽभ्युत्थायासनं पाद्यमर्हणमर्घ्यं वा प्रयच्छेत यास्तत्रौषधयस्ता उपहरेत् २१
य एतेन विधिनाऽतिथीन्नियच्छति यश्चेतेन विधिनाऽतिथीन् पूजयति नैनं मृत्युरभिभवति नार्तिर्नावृत्तिर्न जरा न शोको यश्चैवं वेद यश्चैवं वेद २२
इति बोधायनीये गृह्यपरिभाषासूत्रे द्वितीयप्रश्ने पञ्चमोऽध्यायः