अथ द्वितीयप्रश्ने चतुर्थोऽध्यायः
अजिनं वासस्सूत्रं वा द्वितीयम् यस्य यद्भवति तेन स उपव्ययते देवलक्ष्ममेव तत्कुरुते इति ब्राह्मणम् १
अथाप आचम्येति तदपि द्वितीयमब्लिङ्गाभिस्त्रिः पिबेद्व्याहृतिभिस्त्रिः परिमृजेदपि वा व्याहृतिभिस्त्रिः पिबेदब्लिङ्गाभिः त्रिः परिमृजेद्यज्ञस्य देवा देवानां यज्ञ इति यज्ञस्य देवानां च संयोगं करोति २
अथ दर्शपूर्णमासयोश्चत्वार ऋत्विज आदित्योऽध्वर्युश्चन्द्रमा ब्रह्माग्निर्होता वायुराग्नीध्रश्चातुर्मास्यप्रभृत्यश्विनावध्वर्यू पर्जन्य उद्गातापो होत्रका रश्मयश्च-मसाध्वर्यव इति यज्ञस्य देवानां च संयोगं करोति ३
अथ गृहस्थस्य वैश्वदेवं कृत्वाग्रं दत्वा कालयोर्भोजन मानुषम् ४
मासिमास्यपरपक्षे मासिकं पितृ-णामिति ५
उभौ कालावग्निपरिचर्या च होमाश्चार्धमासेऽर्धमासे पार्वणो वि-धिर्देवानामिति ६
त्रयाणां त्रयो नियमाष्षट् सम्पद्यन्ते षोढाविहितो वै पुरुषः इति तस्मादात्मनिष्क्रयणम् ७
पञ्च महायज्ञाः देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञ इति ८
देवयज्ञस्स्वाहाकारः आ काष्ठात् ९
पितृयज्ञ-स्स्वधाकार औदनपात्रात् १०
भूतयज्ञो नमस्कार आपुष्पेभ्यः ११
मनुष्ययज्ञो दानमामूलफलशाकेभ्यः १२
ब्रह्मयज्ञ ॐकार आव्याहृतिभ्यः १३
अथा-स्यातिथयोऽभ्यागता वर्णाश्रमा आनुशंसा अभ्युत्थेया अर्घ्या अर्चनीया आभ्यन्तरा रहस्या विश्वास्याश्च भवन्ति १४
श्रान्तोऽदृष्टपूर्वोऽश्रुतः केवल-मन्नार्थी नान्यत्प्रयोजनो य एति सोऽतिथिर्भवति १५
अपि वा सर्ववर्णाना-मन्यतमः काले यथोपपन्नस्सर्वेषामतिथीनां श्रेष्ठतमोऽतिथिर्भवति १६
श्वश्रूश्व-शुरयोनिसम्बन्धाः स्नेहवन्धमाभिभाषमाणा भूयोभूयोऽभ्यागच्छेरन् तथा प्रेषणिकाश्चाभ्यागता भवन्ति १७
सखा सहाधीतिस्सहाध्वनीनः ब्राह्मणक्षत्रि-यवैश्यरथकाराः सगृहास्साग्निहोत्रिका अनस्विनो रथिनश्चातिथयो भवन्ति १८
तेषामन्तराले विपङ्क्तीः कृत्वा सर्वान् कामानुपहरेत् सानड्वाहपशूनाम् १९
विज्ञायते च तस्मादनस्वी च रथी चातिथीनामपचिततमावपचिततमो भवति य एवं वेद इति ब्राह्मणम् २०
इति बोधायनीये गृह्यपरिभाषासूत्रे द्वितीयप्रश्ने चतुर्थोऽध्यायः