अथ द्वितीयप्रश्ने तृतीयोऽध्यायः
अथ वै भवति ब्राह्मण एकहोता । स यज्ञः इति स एष कुसिन्धोऽधिकृतस्तस्य दशहोता निदानं तस्य यश्च कश्चन भवति सोऽन्तरात्मा कुसिन्ध आत्मा यज्ञः परमात्मा स पुरुषः पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यं यद्भविष्यदिति तदग्निहोत्रं तदेव तत् कुसिन्धोऽधिकृतस्तदस्य दशहोता निदानं स यज्ञस्स आत्मनि वर्तते तस्योपवीतं यज्ञोपवीतमिति १
अथ वै भवति यज्ञवित्सर्वविद्भवति यज्ञस्सर्वम् इति श्रुतिः तस्माद्याज्ञीषु चिन्तासु रमन्ते तत्त्वदर्शिनः इत्यग्निहोत्रं कुसिन्धमेकहोतृत्वं स्थूरिः केवलमित्येकार्थवाचकाश्शब्दाः श्रद्धालक्षाणा भवन्ति अप्सु प्रतिष्ठिताः श्रद्धा वा आपः इति विज्ञायते । ताश्च यज्ञ आप्यमग्निहोत्रमाप्यं कुसिन्धमेवहोतृत्वं स्थौर्यं कैवल्यं तद्ब्रह्मैकाक्षरं परं ब्रह्मेत्योमिति ब्रह्मेति २
अथ वै भवति अक्ति ब्रह्म प्रणक्त्यापः पापं नुदति कर्मणा । नोदनाच्चैव सङ्गानां ब्राह्मणस्तुतिरुच्यते । इति ब्राह्मणत्वमेकहोतृत्वं च । जिह्वाया आप्यत्वादध्यात्मभावेन रसवाचकस्थानत्वादधिभूतभावेन बुद्धिकर्मणोरेकत्वादधिदैवतभावेनाग्नीषोमयोरेकत्वादधिदैवतभावेन एष सो-मो वै चन्द्रमाः इति मानसत्वाद्यज्ञत्वात् प्राजापत्यो यज्ञो यज्ञो मनः इति यज्ञोपवीत्यप आचामेदिति नित्यमित्याचार्यास्सम्प्रतिपन्नाः कथमेतदुच्यत इति ४
इति बोधायनीये गृह्यपरिभाषासूत्रे द्वितीयप्रश्ने तृतीयोऽध्यायः