अथ द्वितीयप्रश्ने प्रथमोऽध्यायः

अथ व्रीहिभ्यो यवेभ्यश्च नवानामनिरुप्तं स्थालीपाकं श्रपयित्वाऽग्निमुपस-माधाय सम्परिस्तीर्याघारावाघार्याज्यभागाविष्ट्वाग्रयणदेवताभ्य इन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यो द्यावापृथिवीभ्यां सोमाय स्विष्टकृच्चतुर्थीभ्यो जुहुयात् १
कामं पुरस्तात्स्विष्टकृतोऽज्यानीरुपजुहोति २
प्रसिद्धौ प्राशनमन्त्रौ ३
वैश्वदेवं कृत्वा ब्राह्मणेभ्यो दत्वा प्राशनम् ४
एतेन सर्वासामोषधीनामाग्रयणं व्याख्यातमन्यत्र श्यामाकवेणुयवेभ्यश्च ५
सौम्यश्श्यामाकश्चरुरग्नीन्द्रो वेणुयवानां वैश्वदेवो वा ६
समानौ प्राशनमन्त्रौ ७
अथ फलानां मूलानां भक्षणानां ब्राह्मणेभ्यो दत्वा प्राशनमेव ८
पुष्पाणामन्येषां च नवानां ब्राह्मणेभ्यो दत्वोपयोगः ९
अथ षट्सु षट्सु मासेष्वयनप्रतिपत्तौ वाऽथ देवयजनो-ल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वा स्रुक्स्रवं निष्टप्य सम्मृज्य स्रुचि चतुर्गृहीतं गृहीत्वा सग्राहं षड्ढोतारं हुत्वामिक्षां श्रपयित्वा पक्वमोदनं पायसं वा याचति १०
तमभ्युक्ष्याग्नावधिश्रयति ११
आज्यं निर्वपति १२ अथाज्यमधिश्रयति १३
उभयं पर्यग्नि कृत्वा मेक्षणं स्रुवं च सम्मार्ष्टि १४
अथैतं चरुं श्रपयित्वाभिघार्योदञ्चमुद्वास्य प्रतिष्ठितमभिघारयति १५
परिधानप्रभृत्याग्नि-मुखात् कृत्वा पुरस्तात्स्वाहाकृतिं स्रुवाहुतिं जुहोति स्वाहा देवेभ्यः इति १६
अथ स्रुचि चतुर्गृहीतं गृहीत्वा वपां जुहोति जातवेदो वपया गच्छ देवान् त्वं हि होता प्रथमो बभूथ । घृतेन त्वं तनुवो वर्धयस्व स्वाहाकृतं हविरदन्तु देवाः स्वाहा इति १७ अथोपरिष्टात्स्वाहाकृतिं स्रुवाहुतिं जुहोति देवेभ्य-स्स्वाहा इति १८
अथ पक्वाज्जुहोति इन्द्राग्निभ्यां स्वाहा अग्नये स्वाहा इति १९
अथ वाजिनस्य जुहोति घृतं घृतपावानः पिबत वसां वसापावानः पिब-तान्तरिक्षस्य हविरसि स्वाहा त्वान्तरिक्षाय स्वाहा इति २०
अथामिक्षायै जुहोति इन्द्राग्नी रोचना दिवः श्नथद्वृत्रम् इति २१
अथ वाजिनस्यैव दिशो जुहोति दिशः प्रदिश आदिशो विदिश उद्विशस्स्वाहा दिग्भ्यो नमो दिग्भ्य-स्स्वाहा इति २२
अथ पृषदाज्यात् स्रुवाहुतिं जुहोति वनस्पतये स्वाहा इति २३
अथामिक्षाया एव स्विष्टवतीभ्यां सौविष्टकृतं जुहोति २४
अथ स्रुचि चतुर्गृहीतं गृहीत्वा समुद्रं गच्छ स्वाहा इत्येकादश विग्राहं जुहोति २५
जयप्रभृति सिद्धमाधेनुवरप्रदानात् २६ एतेनास्य पशुबन्धयाजित्वं भवति २७
पार्वणेनतोऽन्यानि कर्माणि व्याख्यातान्येकदेवत्यान्याग्रयणेन बहुदेवत्यान्या-मिक्षया पशुबन्ध आचाराद्यानि गृह्यन्ते २८
यथोपदेशं देवताः २९
अग्निं स्विष्टकृतं चान्तरेणोपहोमाः ३०
वैश्वदेवे विश्वेदेवाः पौर्णमास्यां पौर्णमासी यस्यां क्रियेत ३१
उपाकरणे समापने च ऋषिर्यः प्रज्ञायते ३२ सदसस्प-तिर्द्वितीयः ३३
स्त्रियानुपतेन क्षारलवणावरान्नससृष्टस्य तु होमं परिचक्षते ३४
यथोपदेशं काम्यानि बलयश्च ३५
अथापि काम्यानि भवन्ति अथ वै भवति प्रजापतीः प्रजा असृजत तास्सृष्टा इन्द्राग्नी अपागूहताम् इत्येतस्माद्ब्रा-ह्मणात् ३६
येऽमुत्र पुरोडाशास्त इह चरवो यथादेवतं याज्यापुरोनुवाक्याः योऽमुत्र वषट्कारस्स इह स्वाहाकार इति ३७
अग्न्याधेयमग्निहोत्रं दर्शपूर्ण-मासावाग्रयणं चातुर्मास्यानि पशुबन्धस्सोम इत्येष आघारवान् दर्वीहोमः ३८
अथात आग्निहोत्रिकं व्याख्यास्यामः ३९
सर्वमेवैतत् स्वाहाकारप्रदानं कुर्या-दिति सिद्धम् ४०
आ परिधानात्कृत्वा अमुष्मै स्वाहा इति दैवतं जुहोति ४१
अग्निस्स्विष्टकृद्द्वितीयः ४२
द्विर्जुहोति द्विर्निमार्ष्टि द्विः प्राश्नात्युत्सृप्याचा-मति निर्लेढि इति ४३
एष आग्निहोत्रिकः ४४ अथातोऽपूर्वं व्याख्यास्यामः ४५
सायम्प्रातर्दशहोतारं जुहुयात्पर्वसु चतुर्होतारमाग्रयणेष्वज्यानीः चातुर्मा-स्येषु पञ्चहोतारं पशुबन्धं षड्ढोतारमृतुमुख ऋतुमुखीय सोमे सप्तहोतारम् इति पयसा दशहोतारं जुहुयादन्नेन चतुर्होतारं पायसेनाज्यानीः पृषदाज्येन पञ्चहो-तारमामिक्षया षड्ढोतारमाज्येन ऋतुमुखीयं सोमेन सप्तहोतारम् इति ४६
स एष औपासननिष्ठानां याथातथ्यदर्शितां निरीप्सितानां श्रद्दधानानामपूर्वो होमः प्रजासंस्कारार्थो वा किञ्चिज्ज्ञानानां प्राकृतेन हविषां यत्कामयते तज्जुहोति हुतमेवास्य तद्भवति ४७
इत्यपूर्वो व्याख्यातः ४८
इति बोधायनीये गृह्यपरिभाषासूत्रे द्वितीयप्रश्ने प्रथमोऽध्यायः