अथ प्रथमप्रश्ने षोडशोऽध्यायः
स यद्यौणमनं न धारयत्या दशाहादेवैनमाज्येन व्याहृतीभिर्हुत्वाऽग्नीना-धास्यमानो ब्रह्मौदनं कृत्वोत्सृजति १
कर्मणिकर्मण्येवैनं पुनस्संस्कृत्याहरति २
यद्यु वै नाधास्यमानो भवति नैनमुत्सृजति ३
यस्मिन्नग्नावुपनयति तस्मिन् व्रतचर्यं तस्मिन् समावर्तनं तस्मिन् पाणिग्रहणं तस्मिन् गृह्याणि कर्माणि क्रियन्ते । तस्मिन् प्रजासस्कारा इत्येके ४
स एष उपनयनप्रभृति व्याहृति-भिस्समिद्भिर्हूयत आ समावर्तनात् ५
समावर्तनप्रभृति आज्येन व्याहृतिभिरेव हूयत आ पाणिग्रहणात् ६
पाणिग्रहणप्रभृति व्रीहिभिर्यवैर्वा ७
हस्तेनैते आहुती जुहोति अग्नये स्वाहा प्रजापतये स्वाहा इति सायम् ८
सूर्याय स्वाहा प्रजापतये स्वाहा इति प्रातरपि ९
अग्निहोत्रहविषामन्यतमेन हूयते १०
अथास्य पार्वणः प्रसिद्ध आग्नेयस्थालीपाकः तस्यायुधानि भवन्त्युलूखलमुसले कृ-ष्णाजिनं शूर्पं स्फ्यः चरुस्थाल्याज्यस्थाली स्रुक्स्रुवं दर्वी मेक्षणम् इति ११
अथामावास्यायां प्रसिद्धः पिण्डपितृयज्ञः १२
नात्र गार्हपत्यशब्दो विद्यते १३
एतेनास्य दर्शपूर्णमासयाजित्वम् १४
उपनयनादिरग्निस्तमौपासन इत्याचक्षते १५
पाणिग्रहणादिरित्येके १६
नियो धार्योऽनुगतो मन्थ्यः श्रोत्रियागाराद्वाहार्यः १७
उपवासश्चानुगतेऽन्यतरस्य भार्यायाः पत्युर्वा १८
अपि वैकां जुहुयात् अयाश्चाग्ने इति १९
अथास्याहुतप्रायश्चित्तं मनो ज्योतिर्जुषाताम् इति २०
अथास्यातिपन्न प्रायश्चित्तम् अग्ने नया देवानाम् इति २१
अथास्या-व्रत्यप्रायश्चित्तं त्वमग्ने व्रतपा असि यद्वो वयम् इति २२
अथास्या-नाज्ञातप्रायश्चित्तम् अनाज्ञातं पुरुषसम्मितः इति २३
अथ यद्युखा भिद्येत तामभिमन्त्रयते अभिन्नो घर्मो जीरदानुर्यत आत्तस्तदगन् पुनः इति २४
अथाज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा सन्तनीं जुहोति इध्मो वेदिः परिधयश्च सर्वे यज्ञस्यायुरनुसञ्चरन्ति । त्रयस्त्रिंशत्तन्तवो ये वितत्रिरे य इमं यज्ञं स्वधया मदन्ते तेषां छिन्नं प्रत्येतद्दधामि स्वाहा इति २५
अथान्यामाहरति घर्मो देवानाप्येतु इति २६
एकाहं मनस्वतीं द्व्यहं वारुणीं त्र्यहं तन्तुमतीं चतस्रो-ऽभ्यावर्तिनीराद्वादशाहात् २७
द्वादशाहं विच्छिन्नः पुनराधेयः २८
अथ यदि द्वादशाहं विच्छिन्नः पुनराधेयस्स्याद्या प्रकृतिस्तत आहरणं प्रणवेनाहाति ब्रह्मा प्रणवेन प्रसौति २९
व्याहृतिभिस्पिकतोपोप्ते यथोपपादमग्न्याधेयिकान् सम्भारानाहृत्य व्याहृतिभिर्नियुप्योपसमाधायोपतिष्ठते जुष्टोदमूनाः इति ३०
अथैनं प्रदक्षिणमग्निं परिसमूह्य पर्युक्ष्य परिस्तीर्याज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य संसृज्य स्रुचि चतुर्गृहीतं गृहीत्वा समिद्वत्यग्नौ परिशृते पूर्णाहुतिं जुहोत्यपरिशृते वा सप्त ते अग्ने इति ३१
पूर्णाहुतौ वरं ददाति धेनुमृषभमनड्वाहं कंसं हिरण्यं वासो वा इति ३२
अपरं चतुर्गृहीतं गृहीत्वा तिस्रस्त-न्तुमतीर्विग्राहं जुहोति तन्तुं तन्वन् उद्बुध्यस्वाग्ने त्रयस्त्रिंशत्तन्तवः इति ३३
अपरं चतुर्गृहीतं गृहीत्वा चतस्रोऽभ्यावर्तिनीर्विग्राहं जुहोति अग्नेऽभ्यावर्तिन् अग्ने अङ्गिरः पुनरूर्जा सहरय्या इति ३४
अपरं चतुर्गृहीतं गृहीत्वा मनस्वतीं जुहोति मनो ज्योतिः इति ३५
अपरं चतुर्गृहीतं गृहीत्वा प्राजापत्यां जुहोति प्रजापते न त्वदेतान्यन्यः इति ३६
अपरं चतुर्गृहीतं गृहीत्वाऽनुख्यां जुहोति अन्वग्निरुषसामग्रमख्यत् इति ३७
अपरं चतुर्गृहीतं गृहीत्वा प्रायश्चित्तं जुहोति अयाश्चाग्ने इति ३८
अपरं चतुर्गृहीतं गृहीत्वा ज्योतिष्मतीं जुहोति उद्वयं तमसस्परि इति ३९
अपरं चतुर्गृहीतं गृहीत्वाऽऽयुर्दां जुहोति आयुर्दां अग्ने इति ४०
अपरं चतुर्गृहीतं गृहित्वा द्वे मिन्दाहुती जुहोति यन्म आत्मनो मिन्दा-ऽभूत् पुनरग्निश्चक्षुरदात् इति ४१
अपरं चतुर्गृहीतं गृहीत्वा व्याहृती-र्व्यस्तास्समस्ताश्च जुहोति ४२
एकाहुत्या वा प्रतिसन्धानं पुनस्त्वादित्या रुद्रा वसवः इति ४३
अथास्याध्वनि समारोपणम् अयं ते योनिरृत्वियः इति ४४
अरण्योर्वा समारोप्य मथित्वा जुहुयात् ४५
अपि वात्मानि समारोपणं भवति या ते अग्ने यज्ञिया तनूः इत्यात्मनि समारोप्य उपावरोह जातवेदः इति लौकिकेऽग्नावुपावरोह्य जुहुयात् ४६
अपि वा अयं ते योनिरृत्वियः इति समिधि समारोप्य आजुह्वानः उद्बुध्यस्वाग्ने इति द्वाभ्यां लौकिकेऽग्नौ समिधम-भ्याधाय जुहुयात् ४७
आत्मानि समारूदेष्वग्निषु न खादेन्न पिबेन्नोप-रिशय्यायां शयीत नाप्सु निमज्यान्न मैथुनं व्रजेत् ४८
कामं खादेत्कामं पिबेत्कामं त्वेवोपरि शय्यायां शयीत पालाशीमाश्वत्थीं खादिरीमौदुम्बरीं वा ४९
तेषामेतेन प्रसिद्धं समारोपणम् ५०
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने षोडशोऽध्यायः