१५

अथ प्रथमप्रश्ने पञ्चदशोऽध्यायः

त्रयः स्नातका भवन्ति वेदस्नातको व्रतस्नातको वेदव्रतस्नातकश्चेति १
अथै-तेषामत ऊर्ध्वं नित्यानि भवन्ति औपासनो दण्डः कमण्डलुरुपानहौ छत्रं द्वे वाससी द्वे यज्ञोपवीते उष्णीषमजिनमन्तर्वासः इति २
पूर्वेण ग्रामान्निष्क्रम-णप्रवेशनानि च वाग्यत उत्तरेण वा ३ बहिर्वाचं विसृजेत् ४
प्रश्नमनुवाकं वाऽधीयीत ५
ब्रह्मपरो ब्रह्मनित्यो देवेभ्य ऋषिभ्यः पितृभ्यस्तर्पणानि कृत्वाऽ श्नीयात् ६
दिवा नोष्णीषी नक्तमुष्णीषी मूत्रपुरीषोत्सर्गेषु च निवीती नित्य-यज्ञोपवीती ७
तिष्ठन्नाचामेत् प्रह्वो वा ८
सन्ध्ययोश्च बहिर्ग्रामादासनं वाग्यतश्च ९
आ जायासङ्गमात् स्नातका भवन्त्यत ऊर्ध्वं गृहस्थाः १०
अविच्छेदाय वेदव्रतैर्व्यवहरेत् कौमारेण माहेश्वरेण धान्वन्तरेणेति ११
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने पञ्चदशोऽध्यायः